SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४म भध्यायः ।... चिकित्सितस्थानम् । २६६३ बलारानातिलाः सर्पिर्मधुकं नीलमुत्पलम् । पलङ्कषा देवदारु चन्दनं केशरं घृतम् ॥ . वीरा बला विदारी च कृष्णगन्धा पुनर्नवा । शतावरी पयस्या च कत्तृणं मधुकं घृतम् ॥ चत्वार एते श्लोकाद्धैः प्रदेहाः परिकीर्तिताः। शस्ताः संस्कृष्टदोषाणां शिरःपावीसशूलिनाम् ॥ ३७॥ नावनं धूमपानानि स्नेहाश्चौत्तरभक्तिकाः। तैलान्यभ्यङ्गयोगश्च वस्तिकर्म तथापरम् ॥ शृङ्गालाबूजलोकाभिः प्रदुष्टं व्यधनेन च। .. शिरम्पावीसशूलेषु रुधिरं तस्य निर्हरेत् ॥ ३८॥ . गङ्गाधरः-बलेत्यादि। शिरःपाचांसलिनां संसृष्टदोषाणां शस्ता बलादिभिः श्लोकारते चखारः प्रदेहाः परिकीर्तिताः। बलादिनीलोत्पलान्तैरेका प्रदेहः, उष्णबहल उपलेपः। पलक्षादिघृतान्तः द्वितीयः। वीरादिपुनर्नवान्तैस्तृतीयः। शतावादिघृतान्तश्चतुर्थ इति ॥३७॥ ___गङ्गाधरः-प्रदेहानुक्त्वा धृमादीनाह-नावनमित्यादि। नावनं नस्य विशेषः। धूमपानानि स्नेहाश्चैते सर्वे औत्तरभक्तिका योज्याः। तैलानि वातकफहारिद्रव्यसिद्धानि । अभ्यङ्गयोगः। वस्तिकम्मे च सिद्धिस्थानोक्तं योज्यं तथाऽपरं योज्यम्। तद्यथाह शृशालाबजलोकाभिक्त्यिादि। शिरःपाश्वांसशृलेषु तस्व यक्ष्मिणः प्रदुष्टं चेद रक्तं वर्त्तते, तदा शृङ्गादिभिः सिराव्यधनेन च तत् प्रदुष्टं रुधिरं निहरेत् ।। ३८ ॥ चक्रराणिः-पलषा गुग्गुलः। पयस्या भीरकाकोली। शिरःपाश्चीसलिमा शस्ता इति बोज्यम् ॥ ३७॥ चक्रपाणिः-शृङ्गालाबुजलोकोभिरित्यन पित्तदृष्टे जलौका, कफद्दष्टे रक्तेऽलावुः, वातप्टे. तु ज्ञेयम् । यदुक्तं-'पित्ताचितं जलोकोभिरलाब्वा तु कफान्वितम्। शोणितं वातदुष्टन्तु विषाणेनाशु निर्हरेत्" इति। व्यधनन्तु सिराव्यधरूपम् ॥ ३८ ॥ ३३८ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy