SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६६२ चरक संहिता। राजयक्ष्मचिकित्सितम् वस्तमत्स्यशिरोभिर्वा नाडीस्बेदं प्रयोजयेत्। कण्ठे शिरसि पावें च पयोभिर्वा सवातिकः ॥ औदकानूपमांसानि सलिलं पाश्चमौलिकम् । सस्नेहमारनालं वा नाडीस्वेदं प्रयोजयेत् ॥ ३४॥ जीवन्ताः शतपुष्पाया बलाया मधुकस्य च । वचाया वेशवारस्य विदार्या मूलकस्य च ॥ औदकानूपमांसानामुपनाहाश्च संस्कृताः। शस्यन्ते च चतुःस्नेहाः शिरगावीसशूलिनाम् ॥ ३५ ॥ शतपुष्पा समधुकं कुठं तगरचन्दने। आलेपनं स्यात् सघृतं शिरःपावीसशूलनुत् ॥ ३६॥ मुखोष्णैः शिरः परिषेचयेत्। एवं वस्तमत्स्ययोः शिरोभिरुतकथितैर्नाडी. स्वेदं प्रयोजयेत् । कण्ठे शिरसि पार्श्वे च प्रयोजयेदिति योजना। एवं सवातिकैर्वातघ्नभद्रदाादिभिः कल्कश्चतुगुणजलेन शृतैः पयोभिर्नाडीस्वेदं प्रयोजयेत् । अथवा औदकमांसम् आनूपमांसश्च एकत्रोत्काथ्य नाड़ीस्वेदं प्रयोजयेत् । अथवा पाश्चमूलिकसलिलं नाड़ीस्वेदं प्रयोजयेत् । अथवा सस्नेहमारनालं नाड़ीस्वेदं प्रयोजयेत् ॥ ३४॥ गङ्गाधरः-अथालेपनमाह-जीवन्स्था इत्यादि। जीवन्त्यादीनां प्रत्येकम् उपनाहाश्चतुःस्नेहयुक्ताः संस्कृता उष्णीकृताः शिरःपाश्वासशूलिनां शस्यन्ते । अथवा शतपुष्पामधुककुष्ठतगररक्तचन्दनैः सघृतमालेपनं शिरःपाश्चासेषु। दत्तं शिरःपाश्चों सशुलनुत् स्यात् ।। ३५ ॥ ३६॥ ऋष्यप्रोक्ता गुडूची च मधुकं शिग्रुरेव च। यवाग्वश्च * यच्चान्यत् किञ्चिदौषधम् । सर्वमेतद विजानीयाद भिषगुत्तरवातिकमिति । नाड़ीस्वेदं प्रयोजयेदिति नाड़ीत्वेदं यथायोग्यतया प्रयोजयेत् ॥३१-३४॥ चक्रपाणि:- जीवन्त्यादीनां प्रत्येकमुपनाहा ज्ञयाः। वेसवारो यथा-'अनस्थिपिशितं पिष्टं स्विन्नं गुड़घृतान्वितम् । कृष्णामरीचसंयुक्तं वेसवार इति स्मृतः' इति ॥ ३५ ॥३६॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy