________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः]
चिकित्सितस्थानम्। २६६१ मूलकानां कुलस्थानां यूपैर्वा सूपसंस्कृतैः । यवगोधूमशाल्यन्नैर्यथासात्म्यमुपाचरेत् ॥ ३२ ॥ पिबेत् प्रसादं वारुण्या जलं वा पाश्चमूलिकम् । पर्णिनीभिश्चतसृभिर्धान्यनागरकेण वा। तामलक्याथ वा सिद्धं तेन चान्नानि कल्पयेत् ॥ ३३ ॥ कृशरोल्कारिकामाष-कुलत्थयवपायसः। सङ्करस्वेदविधिना कण्ठं पाश्वोरसी शिरः॥ स्वेदयेत् पत्रभङ्गण शिरश्च परिषेचयेत् । बलागुडूचीमधुक-शृतैर्वा वारिभिः सुखैः ॥ गङ्गाधरः-मांसरसमुक्त्वा यषानाह-मूलकानामित्यादि। मूलकानां शुष्काणां कुलत्थानाच सूपसंस्कृतैर्मरिचादिना सुष्ठपसंस्कृतैः यूरैः सूपैर्वा यवगोधूमशालीनां यथासात्म्यमन्नरुपाचरेत् ॥ ३२ ॥ ___ गङ्गाधरः-प्रतिश्यायादिषु षट सु पानार्थमाह-पिवेदित्यादि। तेषु षट्स वारुण्याः प्रसादमुपरितनस्वच्छांशं पिबेत्, अथवा पाश्चमूलिक विल्वादिपञ्चमूलस्य जलं पड़परिभाषयार्द्धशृतं काथं पिवेत्, अथवा चतसृभिः पर्णिनीभिः शालपर्णीपृश्निपर्णीमुद्गपर्णीमाषपर्णीभिः शृतं जलम्, अथवा धान्यनागरकेण शृतं पिबेत, अथवा तामलक्या भूम्यामलक्या सिद्ध जलं पिबेत्। एवं तेन पञ्चमूल्यादिजलेन चान्नानि कल्पयेत् षड़ापरिभाषयादेशृतेन ॥३३॥ ___ माधरः-स्वेदानाह-कृशरेत्यादि। कृशरं तिलकल्कः उत्कारिका " मापकलायकुलत्थयवपायसैः सङ्करस्वेदविधानेन काठं पाश्चेमुरः शिरश्च स्वेदयेत् । पत्रभङ्गेण पेषणघर्षणादिना कृतो द्रवः, इह तु शिरोरोगोलकुष्ठादिद्रव्यं द्रवीकृत्य तंद्रेवैः शिरश्च परिषेचयेत्। बलादिशृतैर्वारिभिर्वा सुखः पलानि द्वादश । सूपसंस्कृतैरिति सुष्ठूपसंस्कृतैः । तेनेति पञ्चमूल्यादिसंस्कृतजलेन । तिलतण्डुलमात्रैस्तु कृशरा ज्ञेया। पतभङ्गकाथेन पत्रभङ्गाश्च वातहरपल्लवाः। सवातिकैरिति तन्मान्तरे तु वातिकान्युत्तरवातिकानि च गुणेन पठितानि। यथा-विल्वाग्निमन्थकाश्मयं श्रेयसी पाटला घला। शालपर्णी पृभिपर्णी वृहती कण्टकारिका। वर्द्धमानं मूलकञ्च वातिकान्थवतारयेत् । कारमईबदरं विल्वं कुलत्थान् शुष्कमूलकान् । श्वदंष्टा वेणुपर्णी च साश्वगन्धा * * ।
For Private and Personal Use Only