________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shi
२६६०
चरक-संहिता। राजयक्ष्मचिकित्सितम प्रतिश्याये शिरःशूले कासे श्वासे खरक्षये। पार्श्वशूले च विविधाः क्रियाः साधारणीः शृण ॥ २६ ॥ पोनसे स्वेदमभ्यङ्गं धूममालेपनानि च। परिषेकावगाहांश्च पानकं वाध्यमेव च ॥ लवणाम्लकटूष्णांश्च रसान् स्नेहोपवृहितान् । लावतित्तिरिदक्षाणां वर्तकानाञ्च कल्पयेत् ॥ ३०॥ सपिप्पलीकं सयवं सकुलत्थं सनागरम् । दाडिमामलकोपेतं स्निग्धमाजं रसं पिबेत् । तेन षड़ वै निवत्तन्ते विकाराः पीनसादयः ॥ ३१ ॥ गङ्गाधरः-तत्र क्रिया आह–प्रतिश्याय इत्यादि। प्रतिश्यायादिषु षटम साधारणीः क्रियाः शृणु ॥२९॥
गङ्गाधरः-तद् यथा-पीनसे इत्यादि। प्रतिश्यायमन्तरेण नैते शिरःशूलादयः पञ्च जायन्ते। तस्मादादौ पीनसे प्रतिश्याये जाते स्वेदादिकं फल्पयेत्। पानकं पानीयद्रव्यं, वाट्यो यवमण्डः। लावतित्तिरिदक्षाणां वर्तकानाञ्च मांसस्य लवणाम्लकटूष्णांश्च रसान् स्नेहोपट हितान् वैद्यः कल्पयेत् ॥३०॥
गङ्गाधरः--इति सूत्रमुक्त्वा तदुदाहरणमाह-सपिप्पलीकमित्यादि। पिप्पलीयवकुलत्थनागरदाडिमफलामलकफलानि षडङ्गपरिभाषया अर्दशृतं काथं कृखा तत्र सुखिन्नयोग्ये काथेऽजमांसस्य रसे घने ततुकेऽच्छतरे च कत्तेव्ये क्रमेण द्वादशपलषट पलपलमात्रं नीखा पचेत् यावत् रसो घनादिरूपो भवेत्। ततः स्नहेन संस्कृतं सम्भृत्य कुर्यात् । तसं पिबेत् । तेन पीनसादयः प्रतिश्यायशिरःशूलकासश्वासस्वरक्षयपार्श्वशूलानि निवर्तन्ते । इत्येको योगः ॥३१॥ च भेदं सूचयित्वा सामान्याञ्च विशेषाञ्च चिकित्सा सूचयनाह-सर्व इत्यादि। विविधा इति भित्राः । साधारणीरित्यनेनाभिन्नाश्च शृध्विति योज्यम् । तत्र विविधाः प्रत्येकं पीनसादिविहिता ज्ञेयाः। साधारणीस्तु षडङ्गरसादिरूपाः साधारणविहिता ज्ञेयाः ॥ २८-३०॥
चक्रपाणिः-सपिप्पलीकमित्यादिके रसे यवागूसाधनवदद्रव्यादिमानं ज्ञेयम् । मांसमानन्तु
For Private and Personal Use Only