________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
२६८६
चिकित्सितस्थानम्। कषायतिक्तमधुरैविद्यान्मुखरसैः क्रमात् । वातायररुचिं जातां मानसों दोषदर्शनात् ॥ २६ ॥ अरोचकात् कासवेगाद दोषोत्न शाद भयादपि । छबिर्या सा विकाराणामन्येषामप्युपद्रवः ॥ २७ ॥ सर्वस्त्रिदोषजो यक्ष्मा दोषाणान्तु बलाबलम् ।
परीक्ष्यावस्थिकं वैद्यः शोषिणं समुपाचरेत् ॥ २८ ॥ मानसैदिष्टैरर्थमनोनवस्तुभिश्वारुचिरागन्तुजो जायते। तत्र मुखस्य कषायरसेन वातजारुचिं विद्यात् । तिक्तरसेन पित्तजारुचिं, मधुररसेन कफजारुचिं, समस्तश्च वाताद्य र्जातामरुचिं समस्त मुख रसैः कषायतिक्तमधुरैविद्यात् । मानसीं मनोनजामरुचिं दोषदर्शनाद विद्यात्। स्वाभाविकच मुखं तत्र वर्त्तते न च रुचिराहारे स्यादिति। इत्येवं प्रतिश्यायजकासादीन्येकादश रूपाणि यक्ष्मिणो भवन्ति ॥२६॥
गङ्गाधरः-तत्रोपद्रवश्छभिवति तद् यथा स्यात् तदाह-अरोचकात् इत्यादि। यक्ष्मिणोऽरोचकादितो या छर्भिवति सा तूपद्रवः। एवमन्येषां विकाराणां या छर्दिररोचकादितो जायते सापि तस्य तस्य रोगस्योपद्रव इति ॥२७॥ . गङ्गाधरः-इति राजयक्ष्मणो रूपाणां लक्षणान्युक्त्वा चिकित्साक्रममाहसर्वत्रिदोषज इति। सबों यक्ष्मा त्रिदोषजस्तत्रापि दोषाणां बलाबलं पुस आवस्थिकं बलाबलश्च परीक्ष्य वद्यः शोषिणं यक्ष्मिणं समुपाचरेत् ॥२८॥
पृथक् लक्षणं नोक्तम् । अतो वातादिलक्षणमेलक एव तस्याः लक्षणम् । कषायमुखरसता वातजायां, तिक्तमुखरसता पैत्तिकायां, मधुरमुखरसता कफजायाम् । त्रिदोषजायान्तु विदोषमुखरसतोन्नेया। दोषदर्शनादिति द्विष्टदर्शनात् ॥ २४-२६॥
चक्रपाणिः-छईि विभजतेऽरोचकादित्यादि। विकाराणामन्येषामपि उपद्रव इति-एवम्भूता छदिन यक्ष्ममावनियता किन्त्वन्येषामपि विकाराणामेवंभूता छर्भिवति। किंवा एवम्भूता या छहि सा भवति । तथारोचकादिभ्य उत्थिता छईि रन्येषामपि हिकाराजयक्ष्मादीनामुपद्रवो भवतीत्यर्थः ॥२७॥
चक्रपाणिः-सम्प्रति सर्वेषां यक्ष्मणां सामान्यरूपं त्रिदोषजत्वं प्रतिपाद्य दोषबलाबलभेदेन
For Private and Personal Use Only