SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६८८ चरक संहिता । रक्तं विबद्धमार्गत्वान्मांसादीन् नानुपद्यते । आमाशयस्थमुत्क्लिष्टं बहुत्वात् कण्ठमेति वा ॥ २३ ॥ वातश्लेष्मविबन्धत्वादुरसः श्वासमृच्छति ॥ २४ ॥ दोषैरुपहते चाग्नौ सपिच्छमतिसार्यते ॥ २५ ॥ पृथगदोषः समस्तैश्च जिह्वाहृदयसंस्थितैः । जायतेऽरुचिराहारै द्विष्टरर्थेश्च मानसः ॥ [ राजयक्ष्म चिकित्सितम् कफच्छर्दनम् । अथवान्यथा रक्तच्छर्द्दनं भवति तदाह - रक्तमित्यादि । रक्तं मांसादिभावप्राप्तौ विवद्धमार्ग तस्मान्मांसादीन् नानुपद्यते यच्च किञ्चित् जायते तदामाशये तिष्ठति । आमाशये स्थितं यदा बहु भवति तदोत्क्लिष्टं सत् कण्ठमेतीति वा रक्तच्छद्दनं भवति ॥ २३ ॥ गङ्गाधरः- श्वासस्तु यक्ष्मिणो यथा स्यात् तदाह - वातश्लेष्मेत्यादि । वातश्लेष्मणोः मिलितयोरुरसि विबद्धत्वादुच्छासपथरोधादुरसो वक्षसः श्वासमृच्छति यक्ष्मी ॥ २४ ॥ गङ्गाधरः- वदश्चैवं भवति - अग्नौ वातादिभिर्दोषैरुपहते सति सपिच्छं पिच्छासहितमतिसार्य्यते द्रवपुरीषमिति वच्चगदो भवति ।। २५ ।। गङ्गाधरः- अरुचिस्तु यक्ष्मिणस्त्वेवं भवति - पृथगदोषैरित्यादि । जिहा हृदयसंस्थितैर्वातपित्तकफैर्दोषैः पृथक् समस्तैश्च यक्ष्मिण आहारेऽरुचिर्जायते । For Private and Personal Use Only कथं रूपसिद्धिर्भवतीति चिन्तनीया । सञ्चितोत् क्लिष्टमिति वक्तव्ये पूर्वनिपातनियमादुत्कृिष्टसचित इति कृतम् । केवलरुधिरच्छर्द्दनेन युक्तं विवृणोति - रक्तमित्यादि । विबद्धमार्गत्वादिति रक्तस्य मांसाद्यभिगमे यो मार्गः वन्निरोधात् मांसादीननभिगच्छद् रक्तमामाशये एव कृताधिष्ठानं प्रस्रवणजलमित्र विबद्धमार्गत्वाद् बहु भवति । बहुत्वेनोस्कुिष्टं द्वारान्तरागमनात् कण्ठमेति । एवं रक्तस्य पोषकर सेनासम्बन्धात् क्षीयमाणस्यामाशये एव बहुत्वं ज्ञेयम् । तेन रक्तादीनाञ्च संक्षयादित्यनेन रक्तक्षयो य उक्तः स उपपन्न एव ॥ २३ ॥ 1 चक्रपाणिः - रोगाधिकारे पञ्च भक्तस्यानशनस्थानानीति वातपित्तकफद्वषायासा इत्यनेन यद्यपि विदोषजारुचिर्नोक्ता, तथापि चिकित्सार्थं द्वन्द्वजगुल्मवत् विदोषजारुचिरुच्यते । वक्ष्यति - 'चतुरोऽरोचकान् हन्युः वातादेवकजसर्व्वजानिति । इयञ्च विदोषजारुचिः प्रकृतिसमसमवायाख्या, तेन रोगाधिकारे प्रत्येकदोषजारुचिगृहीतैव । प्रकृतिसमसमवायारन्धरथेनैव त्रिदोषजारुचेः
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy