________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः ]
चिकित्सितस्थानम् |
तालुकण्ठ परिप्लोषः पित्ताद वक्तुमसूयते । कफाद भेदो विबन्धश्च स्वरः खुनखुनायते ॥ सयोरकविबन्धत्वात् स्वरः कृच्छ्रात् प्रवर्त्तते । कासातिवेगात् करुणः पीनसात् कफवातिकः ॥ २१ ॥ पार्श्वशूलन्त्वनियतं सङ्कोचायामलक्षणम् । शिरःशूलं ससन्तापं यक्ष्मिणः स्यात् सगौरवम् ॥ २२ ॥ अतिखिन्न + शरीरे तु यक्ष्मिणो विषमाशनात् । कण्ठात् प्रवर्त्तते रक्तं श्लेष्मा चोरिनष्टसञ्चितः ॥
२६८७
sar क्षामश्च स्वरो भवति । पित्तात् स्वरभेदे तालुकण्ठपरिप्लोषः । परिशेषो दाहः । वक्तुमसूयते वाक्यवचनेऽसूया भवति । कफात् स्वरस्म भेदो विबन्धश्व, स्वरः खनखनायते च । रक्तात् खरभेदे रक्तनिष्ठीवनं न भूला यदा बन्धः स्वात् तदा स्वरः कृच्छत् प्रवत्तते । कासातिवेगात् खरभङ्गे करुणः स्वरः कातरः स्वरः । पीनसात् स्वरभेदे कफवातिकः स्वरः ॥ २१ ॥ ..
गङ्गाधरः - एवंराजयक्ष्मणि पार्श्वशुलमाह - पार्श्वशुलमित्यादि । पाठशूलं पावयोः सोच आयामो देध्यं लक्षणं यस्य तत् कदाचित् पार्श्वयोः सङ्कोचः कदाचिदायाम इत्यनियतम् । यक्ष्मणि शिरःशूलं शिरसः सन्तापसहितं गौरवमुच्यते ।। २२॥
For Private and Personal Use Only
गङ्गाधरः छर्दनं रक्तकफयोरिति यदुक्तं तदाह- अतिखिन्न इत्यादि । यक्ष्मिणः शरीरेऽतिखिन्ने सति विषमाशनात् रक्तं कण्ठात् प्रवर्त्तते । इति रक्तच्छर्धनम् । तथा उत्क्लिष्टः सञ्चितः श्लेष्मा च कण्ठात् प्रवर्त्तते । इति
चक्रपाणिः - स्वरभेदं विभजते । वक्तुमसूयत इति वक्तु नेच्छति । खुरखुरायते इति खुरखुरशब्दं करोति । सन्नोऽवसन्नः । कषण इति कण्ठं कर्षति हिनस्तीति यावत् ॥ २१ ॥ चक्रपाणिः --- पार्श्वशूलन्त्वनियतमिति न सकोवरूपेग नियतम्। कदाचिदायामरूपं कदाचित् रूपं न सर्व्वा । भाविशिरःशूल वेन वायुम्, ससन्तापत्वेन पित्तम्, सगौरवत्वेन श्लेष्माणम् एवं त्रिदोषजन्यत्वं ज्ञेयम् ॥ २२ ॥
चक्रपाणिः - सरक्तं कफमस्यतीति यदुक्तं तलक्षणं विवृणोति - अभिसन्न इति । अभितः सोऽभिः । अभिष्यन्द इति पाठपक्षेऽभिष्यन्दगृहीत इत्यर्थः । किन्त्वभिपूर्व स्यन्दतेः + अभिसन्न इति चक्रः ।
* कषण इति चक्रष्टतः पाट