________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Ach
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। (राजयक्ष्मचिकित्सितम प्रतिश्यायस्ततो घोरो जायते देहकर्षणः । तस्य रूपं शिरःशूलं गौरवं प्राणविप्लवः॥ ज्वरः कासः कफोत्क्लेशः स्वरभेदोऽरुचिः क्लमः। इन्द्रियाणामसामथ्यं यक्ष्मा वातः प्रजायते ॥१८॥ पिच्छिलं बहुलं वित्र हरितं श्वेतपीतकम् । व्यापन्नं ष्ठीवति रसं कासन् यक्ष्मी कफानुगम् ॥ १६ ॥ अंसपार्थाभितापश्च सन्तापः करपादयोः । ज्वरः सर्वाङ्गगश्चेति लक्षणं राजयक्ष्मणः ॥२०॥ वातात् पित्तात् कफाद रक्तात् कासवेगात् सपीनसात् ।
स्वरभेदो भवेद वाताद रुक्षः क्षामश्चलः स्वरः॥ ततो घोरो देहकर्षणः प्रतिश्यायो जायते। इति श्लैष्मिको रौधिरः पंत्तिको वातिकश्चेति चतुर्विधः प्रतिश्यायः। तस्य रूपं शिरःशुलादिकमेकादशविघम् । ध्राणविप्लवः क्लेदेन नासापुटपूर्णता । यक्ष्मा राजयक्ष्मा । इत्येवं प्रतिश्यायान यक्ष्मा जायते ॥१८॥ - गङ्गाधरः-कथं कासो जायते तदाह–पिच्छिलमित्यादि। साहसायन्यतमकारणदुष्टात्रयो दोषा यस्य त्वेवं प्रतिश्यायं कुर्वन्ति स यक्ष्मी व्यापन्नं रक्तभावगतिपथरुद्धं रसं पिच्छिलादिरूपं कफानुगं कासन् सन् ष्ठीवतीत्येवं यक्ष्मिणः कासो भवति ॥१९॥
गङ्गाधरः-ज्वरस्तु यथा भवति तदाह-अंसेत्यादि। अंसो भुजस्य उपरिभागः। तस्य सन्तापः शूलम् । एवं पार्श्वसन्तापः पार्श्वभूलम् । करपादयोः सन्तापो ज्वाला, विशेषेण सर्वाङ्गगश्च सन्ताप इति यस्य स राजयक्ष्मणो लक्षणं ज्वरः॥२०॥ - गङ्गाधरः-तस्य लक्षणं स्वरभेद उक्तस्तमाह-वातादित्यादि। कासादिषटकारणात् स्वरभेदो राजयक्ष्मणो लक्षणं भवेत्, तत्र वातात् खरभेद प्रजायत इत्यनेनोक्तलक्षणप्रतिश्यायस्यैव पूर्वरूपता सूचयति। स ऊर्द्ध कासवेगेन बहुरूपः प्रवर्तते यदुक्तं यक्ष्मरूपं तद्विवृणोति, पिच्छिलमित्यादि। राजयक्ष्मण क्षयस्य विशिष्टं लक्षणमाह । असेत्यादिलक्षणं राजयक्ष्मण इति ॥ १८-२०॥
For Private and Personal Use Only