________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८४
चरक संहिता |
1
रसः स्रोतःसु रुद्धेषु स्वस्थानस्थो विवर्द्धते स ऊर्द्ध कासवेगेन बहुरूपः प्रवर्त्तते ॥ जायन्ते व्याधयश्चातः षड़ेकादश वा पुनः । येषां संघातयोगेन राजयक्ष्मेति कल्प्यते ॥ १५ ॥ कासोऽसतापो वैस्वयं ज्वरः पार्श्वशिरोरुजा । छर्दनं रक्तकफयोः श्वासो वच्चगदोऽरुचिः ॥ रूपा येकादशैतानि यचिमणः षड़िमानि तु । कासो ज्वरः पार्श्वशूलं स्वरवच्चगदोऽरुचिः ॥ १६ ॥
[ राजयक्ष्मचिकित्सितम्
किमर्थं पुरीषं संरक्ष्यमित्यत आह- सव्वधाखित्यादि । सर्व्वधातुक्षयो हि यक्ष्मिणस्तस्य सव्र्व्वधातुक्षयार्त्तस्य विड़ बलमेव बलमिति ॥ १४ ॥
गङ्गाधरः - ननु रसः सप्तसु स्रोतः शतेषु चरति येन स्रोतसा गच्छन् रक्तं भवति तत् स्त्रोतोरोधेन स्वस्रोतसां किं स्फीतता भवतीत्यत आह - रसः स्रोतः स्वित्यादि । रक्तभावगतौ स्रोतःसु रुद्धेषु रस आहारजः स्वस्थानस्थ एव विवर्द्धते, न च रक्तपथेन गच्छति । स वृद्धो रसः बहुरूपः सन् कासवेगेन ऊर्द्ध प्रवर्त्तते । एवं जायमाने राजयक्ष्मणि पुनरतः कारणात् षट् रूपाणि जायन्ते दोषस्य मध्यमवलेन कोपात् । अथवा सम्पूर्ण बलेन कोपात् एकादश रूपाणि जायन्ते । यान्युक्तानि प्रागेकैककारणात् साहसादितः । येषाञ्च षण्णां वाप्येकादशानां संघातयोगाद् राजयक्ष्मेति कथ्यते, न त्वेषद्वियोगात् ।। १५ ।।
गङ्गाधरः -- ननु कानि तानि षट रूपाणि चैकादश चेत्यत आहकास इत्यादि । पाश्वरुजा शिरोरुजा चेति द्वे रूपे । रक्तच्छद्दनं कफच्छर्द्दनञ्च । इत्येतान्येकादश रूपाणि यक्ष्मिणो भवन्ति । पड़ेवेमानि । कासः ज्वरः पार्श्वशूलं स्वरगदः स्वरभङ्गः वच्चगदोऽतिसारः अरुचिश्चेति षट् रूपाणि । यानि त्वेकादश रूपाणि दोषभेदेनोक्तानि तेषु मध्ये यस्य दोषस्य यत् कार्य्यं तदिह चैकादशानां षण्णाञ्च तत् काय्र्यत्वं बोध्यम् ॥ १६ ॥
For Private and Personal Use Only
चक्रणिः यच्चापि रसबलमुपपद्यते तच्च धातून् न पुष्णाति किन्तु स्वस्थाने विवर्द्धते । खस्थानस्थ इति हृदयस्थः ॥ १५॥१६ ॥