________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
चिकित्सितस्थानम् ।
२६८३ स्रोतसां सन्निरोधाच रक्तादीनाञ्च संक्षयात् । धातूष्मणाश्चापचयाद राजयक्ष्मा प्रवर्त्तते ॥१३॥ तस्मिन् काले पचत्यग्निर्यदन्नं कोष्ठसंश्रितम् । मलीभवति तत् प्रायः कल्पते किञ्चिदोजसे ॥ तस्मात् पुरीषं संरक्ष्यं विशेषाद राजयक्ष्मिणः।
सर्वधातुक्षयातस्य बलं तस्य हि विड़ बलम् ॥ १४ ॥ तथा स रसः स्वस्मिन् स्थितेनोष्मणा क्रमात् पञ्चभिर्दिनः पाकं याति, रक्तश्च प्रसादांशेन भवति, रक्तश्च स्वस्योष्मणा पाकं याति प्रसादांशेन मांसश्च पश्चाहेन जायते, इत्येवं रसादयो धातवः स्वेन स्वेनोष्मणा पाकं यान्ति यथास्वेन च स्रोतसा गच्छतः पूर्वपूर्वधातुतः परपरो धातुः पुष्यति। नैवं राजयक्ष्मिणः ; कस्मात् ? स्रोतसामित्यादि। आहारजा रसाः सप्तसु स्रोतःशतेषु गच्छन्तो येषु स्रोतःसु गवा रक्तानि भवन्ति तेषां स्रोतसां सन्निरोधान्न च रसो रक्तं जायते, ततो रक्तं न पुष्यति क्षयञ्च गच्छति, तस्य च मांसभावगतिपथरोधात् तत्क्षयान्मांसादीनाञ्च पोषणाभावात् क्षयो भवति। इत्येवं रक्तादीनां परपरधातुखप्राप्तौ स्रोतसां रोधात् संक्षयात् धातूष्मणाश्चापचयो भवति, क्षीणे ह्याधारे भवत्याधेयोऽपि क्षीणः। ततो राजयक्ष्मा प्रवत्तेते जायते ॥१३॥
गङ्गाधरः--तस्मिन्नित्यादि। तस्मिन् राजयक्ष्मजन्मनः काले जाठरो. निः कोष्ठसंश्रितमभ्यवहतमन्नं यत् पचति तत् प्रायो मलीभवति मूत्र पुरीषं भवति, प्रसादांशस्तु किश्चित् ओजसे कल्पते। अल्परसो भूखान्यत् किश्चित् स्रोतःपथेन गखा परपरधातुरल्पशो भूखा तेषां सारभागाय स खखोजसे क्लुप्तो भवति। तस्मात् इत्येवं यक्ष्मिणः पुरीपबहुलतयाहारपाकाद विशेषात् पुरीषं भिषजा संरक्ष्यं यथा मलातिप्रत्तिन स्यात् तथा क्रियेत । धातू रक्तादिरूपः किंवा क्रमपरिणामपक्षे रसेन रक्तं रक्तन मांसं पुष्यतीति ज्ञयम् । एवं धातुपोषणक्रमं दर्शयित्वा यक्ष्मणि तद्विरोधमाह-स्रोतसामित्यादि। सन्निरोधादिति पक्ष्मकारकदोषेण निरुद्धत्वाद् रक्तादिसंक्षयोऽपि स्रोतोरोधात् तथा पोषकरसाप्राबल्याच ज्ञेयः। धातूष्मापचयोऽपि धातुक्षयाद् दोषप्रभावाच्च ज्ञेयः, यदा धातोः पोषकरसहानिर्भवति तदा ॥ १३ ॥
चक्रपाणिः-तस्मिन्नित्यादि । ओजसे इति सारभागाय रसायेति यावत् । विशेषाद राजयक्ष्मिण इति वचनेन अन्येषामपि दुर्बलानां पुरीषं रक्ष्यमिति सूचयति । विड्बलमिति विडाधारम् ॥ १४ ॥
For Private and Personal Use Only