________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८२
चरक-संहिता। (राजयक्ष्मचिकिसितम मक्षिकाघुणकेशानां तृणानां पतनानि च। प्रायोऽन्नपाने केशानां नखानाञ्चाभिवर्द्धनम् ॥ पतत्तिभिः पतङ्गेश्च श्वापदश्चाभिधर्षणम् । स्वप्ने केशास्थिराशीनां भस्मनश्चाधिरोहणम् ॥ जलाशयानां शैलानां वनानां ज्योतिषामपि । शुष्यतां क्षीयमाणानां पततां यच्च दर्शनम् ॥ प्रागरूपं बहुरूपस्य तज्ज्ञेयं राजयक्ष्मणः । रूपन्त्वस्य यथोद शं परं शृण सभेषजम् ॥ १२ ॥ यथास्वेनोष्मणा पाकं शारीरा यान्ति धातवः।
स्रोतसा च यथास्वेन धातुः पुष्यति धातुतः * ॥ सुवस्त्रादिपरिच्छदै प्रियता च। प्रायोऽनपानेऽन्ने पाने मक्षिकादीनां पतनानि, केशानां नखानाच छिन्नानामतिवर्द्धनम्। स्वप्ने पतग्रादिभिरभिधर्षणं दृश्यते। तथा केशराशीनामस्थिराशीनां भस्मनश्च राशीनां स्वप्नेऽधिरोहणम् आरोहणं दृश्यते। एवं स्वप्ने शुष्यतां क्षीयमाणानां जलाशयादीनां यच्च दर्शनं तत् पूर्वरूपमिति। रूपन्तस्येति। यथोद्देशं साहसक्षयवेगसन्धारणविषमाशनेभ्यो य उद्देशः संक्षेपोक्तिः कृतः तमनतिक्रम्यातः परं सभेषजं शृणु ॥१२॥
गङ्गाधरः-तत्र राजयक्ष्मण आहारपाको यथा भवति तदाह-यथास्वेन. त्यादि । सर्वेषां स्वस्थानामाहारात् जठराग्निना पकाज्जातरसादयः सबै शारीरा धातवो यथास्वेन स्वस्खस्थितेनोष्मणा पाकं यान्ति । यथा चतुर्विध आहारो जाठरेण अमिना पाकं याति, प्रसादभागेन रसश्च जायते, विठून मलमूत्रं, विकृतिदर्शनम् । मक्षिकादीनां पतनानि अरूपाने च योज्यम्। पतन्त्रवादिभिरभिधर्षणं स्वप्ने ज्ञेयम्। पतत्तिणः पक्षिणः, श्वापदा व्याघ्रादयः, केशास्थिराशीनामित्यादौ यच्च दर्शनमित्यन्तेन स्वप्ने इत्यनुवर्तते। सम्प्रति यक्ष्मरूपाणि प्रपन्चेन व्याख्यातुमाह-रूपं तस्येत्यादि । प्रपन्चेन कथयिष्यामि ॥ १२॥
चक्रपाणिः-रूपव्याकरणे कर्तव्ये यक्ष्मणः शरीरधातुपोषणविरोधकस्य धातुपोषणविरोधोपदर्शनार्थमाह-यथास्वेनेत्यादि। यथास्वेनोष्मणा त्रयोदशविधेन। धातुः पुष्यति धातुनेति-रसेन
* धातुना इति वा पाठः।
For Private and Personal Use Only