SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः] चिकित्सितस्थानम् । २६७६ ततः स्नेहक्षयाद वायुर्वृद्धो दोषावुदीरयन् । प्रतिश्यायं ज्वरं कासमङ्गमई शिरोरुजम् ॥ श्वासं विड्भेदमरुचिं पार्श्वशूलं खरक्षयम्। करोति चांससन्तापमेकादशमहाग्रहः॥ रूपाण्यावेदयन्त्येतान्येकादश महागदम् । संप्राप्तं राजयक्ष्माणं क्षयात् प्राण दयावहम् ॥८॥ विविधान्यन्नशनानि वैषम्येण समश्नताम् । जनयन्त्यामयान् घोरान् विषमान् मारुतादयः॥ रेतस्यनन्तराः। क्षीयन्ते धातवः सव्वें ततः शुष्यति मानवः इति। विषमाशनने रसस्य रुधिरभावापनत्वे वर्मरोधात्। सामान्योक्तस्य विशेषव्याख्या बोध्या। इत्येवमोजक्षये शुक्रक्षये च यद्भवति तदाह-ततः स्नेहेत्यादि। ईष्पधितिकर्षणानशनाभ्यां हृदयस्थरसक्षपादतिव्यवायाच्छुक्रक्षयाच शरीरस्नेहक्षयः स्यात् तत्स्नेहक्षयाद वायु द्धो भवति ; दृद्धश्च शेषौ दोषौ पित्तकफौ चोदोरयन् सन् प्रतिश्यायादि लिङ्गं करोति। एकादशमहाग्रह इति वायुविशेषणम् । गृहातीति ग्रहः। एकादश प्रतिश्यायादयो महान्तो ग्रहा यस्मात् स एकादशमहाग्रहहेतुर्वायुः। एतानि प्रतिश्यायादीन्येकादश रूपाणि महागदं राजयक्ष्माणं सम्पाप्तं जातमावेदयन्ति। शुक्रोजसोः क्षयात् प्राणक्षयावहश्च राजयक्ष्माणमावेदयन्तीति ॥ ८॥ गङ्गाधरः -विषमाशनहेतुकमाह-विविधानीत्यादि। विषमाशनं शोषस्य आयतनमित्यादिना निदानस्थाने व्याख्यातम्। विविधान्यनपानानीति पानाशनभक्ष्यलेह्योपयोगान् वैषम्येण समश्नताम। प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपशयतो विषमानासेवमानानाम् । विषमा मारुतादयः । तेभ्यो विषमपानादिभ्यो वातपित्तश्लेष्माणो वैषम्यमापना :द्धा घोरान् आमयान् स्नेहमयादिति देहसारशुक्रौजाक्षयात् । क्षयात् प्राणक्षयप्रदमित्यस क्षयहेतुत्वात् क्षयात् । प्राण क्षयावहमिति वा पाठः ॥ ८॥ . चक्रपाणिः-विविधानीत्यादिना विषमाशनजमाह। वैषम्येणेति प्रकृतिकरणाद्यष्ट For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy