________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८०
चरक-संहिता। [राजयक्ष्मचिकित्सितम् स्रोतांसि रुधिरादीनां वैषम्याद् विषमं गताः। रुद्धा रोगाय कल्पन्ते पुष्यन्ति च न धातवः ॥ ६ ॥ प्रतिश्यायं प्रसेकञ्च कासं छर्दिमरोचकम् । ज्वरमंसाभितापञ्च छर्दनं रुधिरस्य च ॥ पार्श्वशूलं शिरःशूलं स्वरभेदमथापि च । कफपित्तानिलकृतं लिङ्गं विद्याद् यथाक्रमम् ॥ १०॥ इति व्याधिसमूहस्य रोगराजस्य हेतुजम् ।
रूपमेकादशविधं हेतुश्चोक्तश्चतुर्विधः ॥ ११ ॥ जनयन्ति। यथा जनयन्ति तदाह-स्रोतांसीत्यादि। विविशन्नपानानां वैषम्याद् विषमं गता मारुतादयः रुधिरादीनां स्त्रोतांसि सप्तशतनाडीभिः सर्व देहं गतस्याहारजरसस्य रुधिरभावप्राप्तौ यानि स्रोतांसि रसस्य गमनस्य पन्थानस्तानि एवं रक्तादीनां परपरधातुत्वप्राप्तौ ये गतिपथास्तानि स्रोतांसि रुद्धा वक्ष्यमाणप्रतिश्यायादयो रोगाय कल्पन्ते क्लुप्ता भवन्ति। ततश्च रुधिरादयो धातवो न पुष्यन्ति ॥९॥ ___ गङ्गाधरः-तत्र यो दोषो यं यं रोगं जनयति तदाह-प्रतिश्यायमित्यादि । कफो दोषः प्रतिश्यायप्रसेककासच्छरोचकान् करोति । पित्तन्तु ज्वरांसाभि तापरुधिरच्छद्दनानि त्रीणि करोति। वायुः पाश्वशूलशिरःशूलस्वरभेदान् करोतीत्येवं प्रतिश्यायादिकं साश्लोकोक्तं लिङ्गं यथाक्रम कफपित्तानिलकृतं विद्यादिति ॥१०॥
गङ्गाधरः-उपसंहरति—इतीत्यादि। इत्येतदेकादशविधं रूपं व्याधिसमूहस्य प्रतिश्यायादिव्याधिसमूहलक्षणस्य रोगरानस्य राजयक्ष्मणो हेतुजं विधाहा वैषम्यात्। अतिप्रवृद्धा वातादयो बैषस्येणोन्मागण गताः रुधिरादीनां स्त्रोतांसि रुद्धा यक्ष्मरूपाय कल्पन्ते इति योजना। यथाक्रममिति प्रथमश्लोकार्द्ध विहितं कफकृतं, द्वितीयश्लोकाः विहितं पित्तकुतं, शेषन्तु वातकृतम् ॥ ९ । १० ॥
चक्रपाणिः-अत प्रत्येक एकादशलक्षणपाठेन एकादशलक्षणयोगेनैव राजयक्ष्मणः सम्पूर्णत्वं प्रायो भवतीति दर्शयति। यत् तु षडलक्षणत्वं विलक्षणत्वं वा यक्ष्मणो वक्ष्यति, तत् सम्पूर्णलक्षणस्यैव शेयम् ; न तु शेषाणाम्। अथ अयथाबलमारम्भादिभेदेन चातुर्विध्यबनेन तान्येव लक्षणानि सार्दन भवति। तथाच सवपि त्रिदोषजास्तेनैक
For Private and Personal Use Only