________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
N
२६७८
चरक-संहिता। राजयक्ष्मचिकित्सितम् तदा वेगप्रतीघातात् कफपित्ते समीरयन्। ऊर्द्ध तिर्यगधश्चैव विकारान् कुरुतेऽनिलः । प्रतिश्यायञ्च कासश्च स्वरभेदमरोचकम् । पार्श्वशूलं शिरःशूलं ज्वरमंसावमर्दनम् ॥ अङ्गमर्दो मुहश्चदि बच्चोभेदं विलक्षणम् । रूपाण्येकादशैतानि यक्ष्मा यैरुच्यते महान् ॥ ६॥७॥ ईोत्कण्ठाभयत्रास-शोकक्रोधातिकर्षणात् ।
अतिव्यवायानशनाच्छुक्रमोजश्च हीयते ॥ पुरीषादीनामधार्य वेगं यदा निगृह्णाति तदा तद्वेगप्रतीघातात् कुपितोऽनिल: कफपित्ते समीरयन् सन् ऊर्द्ध तिय्यगधश्च विकारान् कुरुते। यान् विकारान् कुरुते तानाह-प्रतिश्यायञ्चेत्यादि। बच्चोंभेदमतिसारम्। त्रिलक्षणमितिप्रतिश्यायादिकमेकादशं त्रिदोषलक्षणं त्रिदोषजखात् । यैर्लिङ्गमहान् यक्ष्मोच्यते तान्येतान्येकादश रूपाणि भवन्ति ॥६॥७॥
गङ्गाधरः-अथ क्षयहेतुकमाह-ईष्योत्कण्ठेत्यादि। व्याख्यातच निदान स्थाने क्षयः शोषस्यायतनमित्यादिना। ईर्ष्यादिभिरतिकर्षणात्। अतिव्यवायानशनादिति यथायोग्यं शुक्रोजसोः क्षयहेतुखाद यथाक्रमाद वा। अतिव्यवायात् शुक्रं धीयते, अनशनादोजः क्षीयते, तादिभिरतिकर्षणादप्योजः क्षीयते। ओज इह हृदयस्थायी रस इति प्रोक्तं निदानस्थाने। तद्रसजसाद द्रवसाच्च रस इत्युक्तमोज एव रसो हृदयस्थायी न खाहारजरसः स हि सर्च शरीरे सप्तभिर्नाडीशतैरुह्यते । ओजस्वर्द्धाञ्जलिपरिमितं यत् तत् खलु रसजबाद रसो हृदयस्थायी तत् क्षोयते न वष्टबिन्दुमात्रं तस्य श्रये मरणादिति कस्यचिद् व्याख्यानमयुक्तम् । ओजस्वर्द्धाञ्जलिमानमेवैकविधं न खधिकम् । अष्टबिन्दुमानमेवार्द्धाञ्जलिः कर्षमानं बिन्दुस्तत्पर्यायशब्दात्। तन्त्रान्तरविरोधश्च । तथा हि। कफप्रधानैदोषैस्तु रुद्धेषु रसवमसु । अतिव्यवायिनो वापि क्षीणे
चक्रपाणिः-हीमत्त्वादित्यादिना वेगसंधारणजमाह । वर्चीभेदं विलक्षणमिति त्रिदोषलिङ्गमित्यर्थः पृथग्वातादिजनितम् ॥ ६ ॥ ७॥ .... चक्रपाणिः-ईषपत्यादिना धातुक्षयजमाह । ओज इति रसः। रसेऽप्योजःशब्दो वर्तते, यदुक्त-मलीभवति तत् प्रायः कल्पते किन्निदोजसे इति । किंवा ओजो देहस्य सारम् ।
For Private and Personal Use Only