________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८म अध्यायः ।
चिकित्सितस्थानम् ।
स शिरःस्थः शिरःशूलं करोति गलमाश्रितः । कण्ठोद्ध सञ्च कासञ्च स्वरभेदमरोचकम् ॥ पार्श्वशूलञ्च पार्श्वस्थ बचभेदं गुदे स्थितः । जृम्भां ज्वरश्च सन्धिस्थ उरःस्थश्चोरसोरुजम् ॥ क्षणनादुरसः कासात् कफं ष्ठीवेत् सशोणितम् । जर्जरेणोरसा कृच्छ्रमुरः शूलातिपीड़ितः ॥ इति साहसिको यक्ष्मा रूपरेतैः प्रपद्यते । एकादशभिरात्मज्ञः सेवेतातो न साहसम् ॥ ५ ॥ हीमचा वा घृणित्वाद वा भयाद् वा वेगमागतम् । वातमूत्रपुरीषाणां निगृह्णाति यदा नरः ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२६७७
उरसि वक्षसि क्षते सति स्वप्रकोपणः प्रकुपितो वायुरुभौ शेषौ पित्तकफौ दोषigator विधावति । स पित्तश्लेग्नसहितो वायुः शिरःस्थः शिरःशूलं करोति । गलमाश्रितः कण्ठोद्धसं मुहुः कण्ठमुद्ध सतं कासवत् । एवं कासञ्च करोति, स्वरभेदञ्च करोति, अरोचकञ्च करोतीति गलस्थवायुः । पार्श्वस्थ सपित्तकफो वायुः पार्श्वशूलं करोति । गुदे स्थितो वायुर्वच्चभेद करोति । सन्धिस्थो वायुः सपित्तकफो: जृम्भां ज्वरश्च करोति । उरःस्थो वायुरुरसो रुजं करोति । कासात् पुनः क्षतस्य उरसः क्षणनात् ततो जर्जरेणोरसा उरःशूलमपीड़ितः सन् कृच्छ यथा स्यात् तथा सशोणितं कफं ष्ठीवेत् । इत्येवं साहसिको यक्ष्मा रोग एतैरेकादशभी रूपैलिङ्गः प्रपद्यते । अतो हेतोरात्मशः पुरुषो न साहसं सेवेत ॥ ५ ॥
गङ्गाधरः-- वेगसन्धारणहेनुकमाह - हीमत्त्वादित्यादि । व्याख्यातं निदानस्थाने सन्धारणं शोषस्यायतनमित्यादिना । राजादिसमीपेषु नरः पुरुषो ह्रीमत्त्वात् लज्जया घृणित्वाद् घृणया भयात् भयप्रसक्तेर्वा आगतं वातमूत्रचतुर्व्विधानतिक्रमो दर्शनार्थम् । निदानोक्तमपि राजयक्ष्म हेत्वादि पुनः प्रकरणवशात् किञ्चिनिदानोक्तविशेषविधित्सयोच्यते । उक्तं कारणचतुष्कं प्रपञ्चयति - युद्धेत्यादि । सहसा शक्तिमनालोच्य धानि क्रियन्ते तानि साहसानि । कफपित्तक्षणनादिव्याधिना रक्तकफनिष्ठीवनमेकमेव लक्षणमुरःशूलातिपीड़ित इत्यनेनोच्यते । शूलोरोस्करक्तनिष्ठीवनविशेषणेनैव एकादशरूपत्वं पूर्यते ॥३५॥
३३६