SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। राजयक्ष्मचिकित्सितम क्रोधो यक्ष्मा ज्वरो रोग एकार्थो दुःखसंज्ञकः । यस्मात् स राज्ञः प्रागासीद राजयक्ष्मा ततो मतः॥३॥ स यक्ष्मा हूकतोऽश्विभ्यां मानुषं लोकमागतः । लब्ध्वा चतुर्विधं हेतुं समाविशति मानवम् ॥ अयथाबलमारम्भो वेगसन्धारणं क्षयम्। यक्ष्मणः कारणं विद्याच्चतुर्थं विषमाशनम् ॥ ४॥ युद्धाध्ययनभाराव लड़नप्लवनादिभिः । पतनैरभिघातैर्वा साहसैर्वा तथापरैः॥ अयथाबलमारम्भैर्जन्तोरुरसि विक्षते। वायुः प्रकुपितो दोषावुदीर्योभौ विधावति ॥ विमुक्ताहो यक्ष्मग्रहो विमुक्तो येन स विमुक्तग्रहः सन् विशेषतो विरराज । अधिभ्यामोजसा वद्धितः शुद्धं सत्त्वं सात्त्विकं मनोऽवाप च ॥ २॥ . गजाधरः-नन्वत्र यक्ष्मशब्दः किमेतद्रोगविशेषाभिधायीत्यत आह-क्रोध इत्यादि। क्रोशे यक्ष्मा ज्वरो रोग इत्येकपर्यायः, स खलु दुःखसंशकः । स रोगो यस्माद्धेतो राश उड़ राजस्य प्रागासीत्, तस्माद राजयक्ष्मा राजरोग इति मतः ।। ३॥ गङ्गाधरः-ननु स्वलॊके चन्द्रस्यायं रोगोऽभूदिह कथं भवतीत्यत आह-स यक्ष्मेत्यादि। स राशश्चन्द्रस्य यक्ष्मा रोगश्चिकित्साकालेऽश्विभ्यां हूकतः सन् ततो निःससो मानुषं लोकमागतः। चतुर्विधं हेतु लब्ध्वा मानवं समाविशति। चतुषिधं हेतुमाह-अयथेत्यादि। अयथाबलं बलातिक्रमण आरम्भः शरीरप्रवृत्तिः, वेगसन्धारणमधाय्ये वेगधारणम्, क्षयं धातूनां रक्तादीनाम्, चतुर्थ विषमाशनं यक्ष्मणः कारणं विद्यात् ॥४॥ गङ्गाधरः-अयथाबलं विष्ठन् यथा ततो राजयक्ष्मा भवति तदाहयुद्धत्यादि। अध्ययनं सामाध्ययनम् अत्युच्चैर्भवति। प्लवनं नदीवेगाभिमुखसन्तरणम् । आदिना निदानस्थाने उक्तानि सर्वाणि। पननैर्वात्युच्चतः । शिलाकाष्ठादिनाभिघातैस्तथा चापरैः साहस रित्येभिरयथावलमारम्भर्जन्तोः चक्रपाणिः-- अयथाबलमारम्भादियक्ष्म हेतुत्रये विहाररूपतया भिन्नजातीयत्वाद् विषमाशनं चतुर्थ पृथक पठितम् । निर्देशादेव चतुष्के लब्धे चतुर्थमिति पदं साहसादीनां प्रधानानां बहरटे पि For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy