SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रम अध्यायः ४म अध्यायः ] : चिकित्सितस्थानम् । प्रजापतेहि दुहितरष्टाविंशतिमंशुमान् । भार्यार्थ प्रतिजग्राह न च सर्वास्ववर्त्तत ॥ गुरुणा तमवध्यातं भाऱ्यावसमर्त्तिनम् । रजःपरीतमबलं यक्ष्मा शशिनमाविशत् ॥ . सोऽभिभूतोऽतिबलिना गुरुक्रोधेन निष्प्रभः । देवदेवर्षिसहितो जगाम शरणं गुरुम् ॥ अथ चन्द्रमसः शुद्धां मतिं बुद्धा प्रजापतिः । प्रसादं कुतवान् सोमे ततोऽश्विभ्यां चिकित्सितः॥ स विमुक्तग्रहश्चन्द्रो विरराज विशेषतः। ओजसा वर्द्धितोऽश्विभ्यां सत्त्वं शुद्धमवाप च ॥२॥ शवाणामश्विन्यादीनां दुहितृणां सोमेनासम्भोगात् ताभिः पितुः सन्निधौ गवा श्रावितात् तासां पितुः प्रजापतेः क्रोधः श्वासरूपेण मूर्तिमान् सन् मुखानिःसृतः। किमर्थमेवं क्रोधोऽभूदित्यत आह-प्रजापतेहीत्यादि। हि यस्मात् । प्रजापतेः दक्षस्याष्टाविंशतिं दुहितरंशुमांश्चन्द्रमा भार्यार्थ प्रतिजग्राह, न च सव्वासु भार्या 'सममवर्तत, रोहिण्यामेवावर्तत। गुरुणा दक्षेण श्वशुरेण सासु भार्यास्व समवर्तिनं तं शशिनमवध्यातं शप्तं “शोषोऽस्य भवतु” इत्येवं शंष्तं रज. परीतमवलं शशिनं यक्ष्मा रोग आविशत्। अथ यक्ष्मणाविष्टः स शशी अतिबलिना गुरुक्रोधेनाभिभूतः सन् तेन च रोगेण निष्पभः सन् देवदेवर्षिसहितो गुरु श्वशुरं दक्ष प्रजापतिं शरणं रक्षितारं जगाम। शरणापन्ने शशिनि प्रजापतिर्यत् कृतवांस्तदाह -अथ चन्द्रमस इत्यादि। अथ शरणगतानन्तरं प्रजापतिदक्षश्चन्द्रमसः शुद्धां मति अश्विन्यादिषु सासु समवर्तिनी बुद्धिं बुद्धा प्रसादं कृतवान् सोमे। ततोऽश्विभ्यां चन्द्रमाः चिकित्सितः । अधर्मश्च कारणं भवतीति दृश्यते। कामव्यसनसंयुक्ता स्त्रीपुससङ्गसम्बन्धा। देहे स्नेहपरिक्षयात् इति देहसारक्षयात्, स्नेहशब्देन हि सारवाचिना शुक्रौजसी ग्राह्य । अवध्यातमिति क्रोधेन चिन्तितम् । गुरुक्रोधेनेति यक्ष्मरूपेण । शुभां मतिं बुढ़े ति स्वापराधजनितमात्मनः श्रयं बुद्धा। चन्द्रमसः स्वभावदोषपरिहारार्थ शुद्धां बुद्धिं ज्ञात्वा। विमुक्तग्रह इति ग्रहेण यक्ष्माख्येन विमुक्तः । सत्त्वं मनः । शुद्धमिति निर्दोषम् ॥ १॥२॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy