________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमोऽध्यायः। अथातो राजयक्ष्मचिकित्सितं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १॥ दिवौकसां कथयतामृषिभिर्वै श्रुता कथा। कामव्यसनसंयुक्ता पौराणी शशिनं प्रति ॥ रोहिण्यामतिसक्तस्य शरीरं नानुरक्षतः । आजगामाल्पतामिन्दोदेहः स्नेहपरिक्षयात् ॥ दुहितणामसम्भोगाच्छेषाणाञ्च प्रजापतेः।
क्रोधो निश्वासरूपेण मूर्त्तिमान् निःस्मृतो मुखात्॥ __ गङ्गाधरः--अथोद्देशकमात् कुष्ठानन्तरं राजयक्ष्मचिकित्सितमाह-अथात इत्यादि। राजयक्ष्मेति शोषरोगस्य। शेषं पूर्ववद व्याख्येयम् ॥१॥
गङ्गाधरः-निदानस्थाने शोषनिदाने यदुक्तं शोषस्य नाम राजयक्ष्मा । तद् यथा। तं सर्वरोगाणां कष्टतमवाद राजयक्ष्माणमाचक्षते भिषजः। यस्माद् वा पूर्वमासीद भगवतः सोमस्योड़ राजस्य तस्माद राजयक्ष्मेति। तत् सोमस्य यथायं शोषो नाम यक्ष्मा जातस्तत्पुरात्तमाह-दिवौकसामित्यादि । कामव्यसनसंयुक्ता शशिनं प्रति पौराणी कथा दिवौकसां कथयतां देवानां सकाशात् ऋषिभिः श्रुता। कीदृशी कथा श्रुता तदाह-रोहिण्यामित्यादि। अश्विन्यादिष्वष्टाविंशतौ दक्षसुतासु खल्विन्दोः सोमस्य रोहिण्यां रोहिणीनामिकायां भाव्यामतिसक्तस्य शरीरं नानुरक्षतो देहः स्नेहपरिक्षयात् अतिमैथुनेन स्नेहस्य शारीरस्य परिक्षयादल्पतामाजगाम । यदाल्पप्रभो देहोऽभूत् तदा तेनैव केवलेन नायं शोषो नाम रोगोऽभूत् कारणानन्तरश्चास्ति, तदाह-दुहितृणामित्यादि। प्रजापतेदक्षस्य रोहिण्याः
चक्रपाणिः-खिदोषत्वसामान्यात् कुष्ठमनु राजयक्ष्मचिकित्सितमुच्यते। उन्मादापस्मारौ दक्षाध्वरध्वंसोत्पन्नावपि आगन्तुत्वात् पश्चादुक्तौ। दिवौकसामित्यादिना प्रागुत्पत्त्यादिलक्षणं दर्शयति । प्रागुत्पत्त्या धातु क्षयो राजयक्ष्मणः प्रधानं कारणं, तथा भार्यास्वसमवर्तितस्य
For Private and Personal Use Only