________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसायनपाद
२२७४
चरक-संहिता। पञ्चानां पञ्चमूलानां भागान् दशपलोन्मितान् । हरीतकीसहस्रञ्च त्रिगुणामलकं नवम् ॥ विदारीगन्धां वृहती पृश्निपणी निदिग्धिकाम् । विद्याद विदारीगन्धादा श्वदंष्ट्रापञ्चमं गणम् ॥ विल्वाग्निमन्थश्योनाकं काश्मय॑मथ पाटलीम् । पुनर्नवां सूपपण्यों बलामेरण्डमेव च ॥ जीवकर्षभको मेदां जीवन्ती सशतावरीम् । शरेक्षुदर्भकाशानां शालीनां मूलमेव च ॥ इत्येषां एञ्चमूलानां पञ्चानामुपकल्पयेत् ।। भागान् यथोक्तान् तत् सव्वं साध्यं दशगुणेऽम्भसि ॥
गङ्गाधरः-प्रयोगमाह-पञ्चानामित्यादि। पञ्चानां पञ्चमूलानामत्रैव वक्ष्यमाणानां मिलितानां पश्चपश्चानां दशपलोन्मितान् भागान् समुदायेन पश्चाशत्पलोन्मितान्, हरीतकीसहस्रम् आकृतिमानेन सहस्रगुडकानि हरीतकीफलानि, त्रिगुणामलकं त्रिगुणं हरीतकीसहस्रात् त्रिगुणमामलकं यत्र तच्च नवं न तु पुराणं, तेनामलकीफलानि सहस्रत्रयगुड़कोन्मितानि इत्युक्तान भागान् पञ्चानां पञ्चमूलानामुपकल्पयेत्। ननु कानि पञ्च पञ्चमूलानीत्यत आह--- विदारीत्यादि। विदारीगन्धा शालपर्णी निदिग्धिका कष्टकारी श्वदंष्ट्रा पञ्चमी यत्र तं गणं विदारिगन्धाद्य कनीयः पञ्चमूलं विदयात्। विल्वेत्यादिपञ्चकं विल्वादिगणं वृहत्पञ्चमूल विद्यात्। पुनर्नवामिति श्वेतपुनर्नवां मूर्पपण्ण्यो मुद्गपर्णीमाषपण्यो बलां वाट्यालकम् एण्डं गन्धर्वहस्तकम् । इत्येतत् पञ्चकं गणं वल्लीपञ्चमूलम्। जीवकेत्यादिकं पञ्चकं गणं कण्टकीपञ्चमूलम्। शरेत्यादिकं पञ्चकं तृणपञ्चमूलम्, अत्र दर्भः कुशः। मूलमेव चेति विदारिगन्धादिभिः सचः योज्यम् । इत्येषां पश्चानां पञ्चमूलानां पञ्चविंशनिद्रव्याणां यथोक्तान भागान् प्रत्येकं पलद्वयोन्मानेन पञ्चकस्य दशपलोन्मितान् भागान मिलिखा पश्चाशत्
चक्रपाणिः-पञ्चानामित्यादौ प्रतिद्रव्यं दशाम्रग्रहणम्, उक्तं हि जतूकणे-“इति पञ्चपञ्चमलानि. तेषां प्रति व्यं दशपलानि” इति । हरीतकीसहस्रमिति हरीतकीफलसहस्रम् ; मूर्पपण्यौं
For Private and Personal Use Only