________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पम अध्यायः
२२७३
चिकित्सितस्थानम्। अतश्चामृतकल्पानि विद्यात् कर्मभिरीदृशैः। हरीतकीनां शस्यानि भिषगामलकानि च ॐ ॥ २०॥
ओषधीनां परा भूमिहिमवान् शैलसत्तमः। तस्मात् फलानि तज्जानि ग्राहयेत् कालजानि तु ॥ आपूर्णरसवीर्याणि काले काले यथाविधि । आदित्यसलिलच्छाया-पवनप्रीणितानि च ॥ यान्यदग्धान्यपूतीनि निर्बणान्यगदानि च।
तेषां प्रयोगं वक्ष्यामि फलानां कर्म चोत्तमम् ॥ २१॥ ततो हेतोश्च हरीतकीनां शस्यानि फलास्थिविवर्जितवल्कलरूपाणि, आमलकानि च आमलकीशस्यानि च अमृतकल्पानि विद्यात ॥१९॥२०॥
गङ्गाधरः-हरीतक्यामलकीफलानि च कीदृशरूपाणि ग्राह्याणि प्रशस्तानि निरुक्तगुणकर्मवन्ति भवन्तीत्यभिप्रायेणाह-ओषधीनामित्यादि। परा सर्वभूमिभ्य उत्कृष्टाभूमिरुत्पत्तिस्थानम्। तस्माद्धिमवतःशैलसत्तमात् तज्जानि हिमवतापतजक्षनानि स्वकालजानि न खकालजानि काले परिणतिकाले आपूर्णरसवीर्याणिसम्यगजातरसवीर्याणि न खकाले आपूर्णरसवीर्याणि न वाप्यजातरससम्पूर्णरसवीर्याणि काले स्वस्वकाले आदित्यसलिलच्छायापवनैः प्रीणितानि च दिवा मूर्यकरैः जुष्टानि वर्षासु दृष्टिजलजुष्टानि रात्रौ चन्द्रकरजुष्टानि तत्पत्रादिच्छायाजुष्टानि च कदाचित् पवनजुष्टानि च प्रायेण यानि प्रीणितानि भवन्ति तानि अदग्धानि बनानादग्धानि न चेद्भवन्ति अपूतीनि जलकर्दमादितो वान्यथा वा क्लिन्नानि भूतानि न चेत्, निव्रणानि पक्ष्यादिभिः क्षतानि न चेत्, अगदानि केनचित् फलव्याधिनानुपतापितानि चेत्, तदा तानि हरीतक्यामलक्योः फलानि यथाविधि शुचिर्भूखा ग्राहयेत् । तेषामित्यादि । तेषां फलानां हरीतक्यामलक्योः फलानां प्रयोगं रसायनप्रयोगं वक्ष्यामि उत्तमश्च कर्म वक्ष्यामि ॥२१॥ स्मृतिबुद्धिप्रमोहहरत्वाभिधानं तत्र विशिष्टशक्त्युपदर्शनार्थम्। वीर्यस्य विपर्ययः इत्यनेनामलकस्य शीतवीर्य्यत्वमुक्तम् । शस्यानीति अस्थिरहितानि फलानि ॥ १४–२०॥
चक्रपाणिः यद्यपि “हिमवानौषधभूभीनाम्" इत्युक्तम्, तथापि रसायने हिमवतः प्रभावेणैवमेव भेषजानि ग्राह्याणीति दर्शयितुम्, 'औषधीनाम्' इत्याद्यभिधानम् ; काले काले इति फलपाककालमित्यर्थः ; यथाविधीति यथा भेषजग्रहणं मङ्गलदेवताच नादिपूर्वकम्, तथावश्यं रसायनं कर्त्तव्यम्। अगदानीत्यनेन पवनदहनाद्यदोषं फलस्य दर्शयति ॥२१॥
* “आमलकस्य च" इति वा पाठः।
For Private and Personal Use Only