________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसायनपाद १
२२७२
चरक-संहिता। कुष्ठं गुल्ममुदावत्तं शोषं पाण्डामयं मदम् । अासि ग्रहणीदोषं पुराणं विषमज्वरम् ॥ हृद्रोगं सशिरोरोग़मतीसारमरोचकम् । कासं प्रमेहमानाहं प्लीहानमुदरं नवम् ॥ कफप्रसेकं वैवयं वैवयं कामलां क्रिमीन् । श्वय, तमकं छबि क्लैव्यमङ्गावसादनम् ॥ स्रोतोविबन्धान विविधान् प्रलेपं हृदयोरसोः। स्मृतिबुद्धिप्रमोहश्च जयेच्छीघ्र हरीतकी ॥ १७ ॥ अजीणिनो रुक्षभुजः स्त्रीमद्यविषकर्षिताः। सेवेरन्नाभयामेते क्षुत्तृष्णोष्णार्दिताश्च ये॥१८॥ तान् गुणांस्तानि कर्माणि विद्यादामलकेष्वपि । यान्युक्तानि हरीतक्या वीर्यस्य तु विपर्ययः॥ १६ ॥
शब्देन प्राधान्याद् यौवनमुच्यते। शोषं राजयक्ष्माणम्। नवं कफप्रसेकं नवप्रतिश्यायम् । स्मृतिबुद्धयोः प्रमोहं स्मृतिप्रमोहं बुद्धिप्रमोहश्च ॥१७॥१८॥
गङ्गाधरः-हरीतकीगुणकर्मणी उक्त्वा आमलकीगुणकर्मणी आहतान् गुणानित्यादि । हरीतक्या ये गुणाः पञ्चरसा लघुखादय उक्ता यानि च कर्माणि शिक्खदोषानुलोमित्वदीपनपाचनत्वायुष्यखादीन्युक्तानि तान् गुणान् तानि च काण्यामलकेष्वलवणेषु विद्यात्। वीर्यस्य तु विपर्ययः । हरीतक्या वीर्यमुष्णमामलकस्य तु तद्विपर्ययः शीतं वीर्यमिति ।
शिवामिति कल्याणकारिणी प्रशस्तगुणयुक्तत्वात्। सर्वरोगप्रशमनीमिति संयोगसंस्कारादिना । सर्वरोगहरत्वमभिधायापि कुष्टादिहन्तृत्वाभिधानं विशेषेण कुष्ठादिहन्तृत्वोपदर्शनार्थम् । प्रवर्तकत्वेऽप्यतीसारग्रहणीहरत्वं विरुद्धदोषप्रवर्तकतया ज्ञेयम्, यदुक्तम्-"स्तोकं स्तोकं विबद्धं वा सशुलं योऽतिसार्य्यते । अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेत्॥” इति । बुद्धिस्मृतिप्रदत्वमभिधायापि
For Private and Personal Use Only