________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः । चिकित्सितस्थानम् । २२७१
शुद्धकोष्ठन्तु तं ज्ञात्वा रसायनमुपाचरेत् । वयःप्रकृतिसात्म्यज्ञो योगिकं यस्य यद् भवेत् ॥ १६ ॥ हरीतकी पञ्चरसामुष्णामलवणां शिवाम् । दोषानुलोमिनी लध्वीं विद्याद दीपनशचनीम् ॥ आयुष्यां पौष्टिकी धन्यां वयसः स्थापनी पराम् ।
सर्वरोगप्रशमनी बुद्धीन्द्रियबलप्रदाम् ॥ ॐ दद्यात् वर्चसः सुशुद्धेर्यावत् । ततस्तं पुरुषं शुष्ककोष्ठं जातबल सुखिनश्च शाखा स्वस्वप्रकृतिश्च शाला यस्य यद् रसायनं यौगिकं भवेत् तच्च शाखा तदेव रसायनम् उपाचरेत्। इति सर्वरसायनप्रयोगे पूर्वकर्त्तव्यविधिः ॥१४-१६॥
गङ्गाधरः-प्राक् प्रयोगविधिमुपदिश्य प्रयोक्तुं हरीतकीगुणमाह-हरीतकीमित्यादि। तन्त्रान्तरे तु हरस्य भवने जाता हरितेति स्वभावतः। हरते सर्वरोगांश्च तेन नाम्ना हरीतकी ॥ पीयूषं पिबतस्त्रिपिष्टपपतेर्य विन्दवो निगतास्तेभ्योऽभूदभया दिवाकरकरश्रेणीव दोषापहा। कालिन्दीव बलप्रमोदजननी गौरीव शुलिप्रिया वह्न द्योतकरी हुताहुतिरिव क्षीणीव नानारसा॥ जीवन्ती रोहिणी चैव विजया चाभयामृता। पूतना कालिका चेति पथ्या सप्तविधा मता ॥ सुवर्णवर्णा जीवन्ती रोहिणी कपिलद्यु तिः । अलावटन्ता विजया पञ्चांशा चाभया स्मृता। स्थूलमांसामृता ज्ञेया पूतनाऽस्थिमती मना। शा च कालिकेत्येवं सप्तजातिहरीतकी। स्नेहपाकेषु सर्वेषु जीवन्ती च प्रशस्यते। रोहिणी क्षतरोगेषु विजया सर्वकर्मसु । पूतना लेपने ज्ञ या अमृता तु विरेचने। अभया नेत्ररोगेषु गन्धयुक्तौ तु कालिका ॥ इति जातिभेदेन कर्मभेदवचनं प्राचुर्याभिप्रायेण, परन्तु सर्वासामेव सर्वकसकरत्वं लवणवर्जपञ्चरसखादुष्णवीय्येवात् प्रभावाच। तस्मादत्र न जातिविशेपो विवक्षितः उष्णामुष्णवीयां प्रभावात्। अलवणां लवणरसरहितां मधुराम्लकटुतिक्तकपायरसां शिवां मङ्गलकरौं वयसः स्थापनी वयःयुष्करन्वरूपोभयधर्मयोगादध्यायादौ गुणकर्मभ्यामुच्यते ; तत्रापि “यद्यपि आमलकं वयःस्थापनानाम्” इन्युक्तम्, तथापि रोगहरवे हरीतक्येवोत्कर्षवतीति कृत्वा हरीतक्यग्रेऽभिहिता। हरीतक्यादिषु पञ्चरसत्वायत्पादोऽदृष्टवशाद भूतसन्निवेशविशेषप्रभावकृतः ; तेन नालोपपत्तयः क्रमन्ते ।
, बद्रिस्मृतिबलप्रदामिति चक्रष्टतः पाठः ।
For Private and Personal Use Only