________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२७० चरक-सीहता।
रसायनपाद हरीतकीनां चूर्णानि सैन्धवामलकं गुड़म् । वच विडङ्ग रजनी पिप्पली विश्वभेषजम् । पिबेदुष्णाम्बुना जन्तुः स्नेहस्वेदोषणादितः ॥ १४ ॥ तेन शुद्धशरीराय कृतसंसर्जनाय च।। त्रिरात्र यावकं दद्यात् पञ्चाहं वापि सर्पिषा।
सप्ताहं वा पुराणस्य यावच्छुद्धः सुवर्चसः॥ १५ ॥ यौवनारम्भात् प्रभृति षष्टिवर्षवयो यावद्रसायनं प्रयुञ्जीतेति बोध्यम्। ननु वृद्धस्य यदि न रसायनविधिस्तत् कथं भार्गवरसायनादी श्रूयते “लभेत जीर्णोऽपि कुटीप्रवेशात् जराकृति रूपमपास्य सर्वम्, विभर्ति रूपं नवयौवनस्य” इति? उच्यते, चरकाचार्य्यस्याभिप्रायोऽयं न खलुरसायनप्रयोगो व्यथः स्यात् वृद्धानां बालानाश्च संशोधनासहत्वे रसायनप्रयोगासम्यकत्वम् । यस्तु वृद्धो बालो वा नातिबलहीनः संशोधनसहः स स रसायनाधिकारी चेत्यतः पूर्वे वयसीत्यादिनियमो नोक्तः, सुश्रुतादी पुनरेवमेवाभिप्रायः, न तु बालमृद्धौ प्रतिषिद्धौ प्रयोगसम्यक्तानपायाभिप्रायेण पूर्वे वयसीत्यादुाक्तम्, तथा च च्यवनादिदृद्धानां संशोधनसहवाद रसायनेन युवत्वं बभूव का च तत्रानुपपत्तिः । न च तपःप्रभावसहायत औषधस्याशीर्वेद भेषजफलत्वेन वक्तुमुचिता स्यादिति ॥ १३ ॥
गङ्गाधरः-ननु शोधनं किमित्यत आह हरीतकीत्यादि। गुई पुरातनमैक्षवं विङ्गमपि पुरातनं पिप्पलीञ्च पुरातनीम् । यदुक्तम् - द्रव्याण्यभिनवान्येव प्रशस्तानि क्रियाविधौ । ऋते गुड़घृतक्षौद्र-धान्यकृष्णाविडङ्गतः ॥ इति । स्नेहस्वेदोपपादितो जन्तुर्यथादोपवलं हरीतकीचर्णानि सैन्धवादिविश्वभेषजान्तैः अष्टमिः समानि बहुवचनात् । उष्णोदकेन पिवेत् । तेन विरेचनेन शुद्धशरीराय कृतसंसज्जनाय जातायां बुभुक्षायां पीतपेयादिकाय तस्मै पुरुषाय परं त्रिरात्रं पञ्चाहं सप्ताहं वापि सपिपा संस्कृतं पुराणस्य यावकं पुराणयवस्य यवागू तथापीह रसायने विशेषेण योगिकहरीतक्यादिप्रयोग एवोक्तः । अन्ये तु हरीतक्यादिप्रयोगणेंव संशोधनं कर्त्तव्यमित्याहुः। संशोधनैरिति बहुवचनं पुनर्यावच्छट्टैर्हरीतवयादिप्रयोगस्यैव करणं दर्शयति ॥ १०-१३॥
चक्रपाणिः-यावमिति यवान्नम् ; तिरावादिविकल्पवयं हीनमध्योत्तमशुद्धिविषयम् । यद्यपि द्रव्यान्तराणि दशवर्षशतायुष्कर-रसायनाधिकृतानि सन्ति, तथापि हरीतक्यामलकयोरेय रोगहरवा
For Private and Personal Use Only