________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६७२ चरक-संहिता। [ कुष्ठचिकित्सितम्
यत् परस्परतोऽभिन्नं बहु यद रक्तलोमवत् ।
यच वर्षगणोत्पन्नं तत् श्वित्रं नैव सिध्यति ॥ ६ ॥ वचास्यतथ्यानि कृतघ्नभावो निन्दा गुरूणां गुरुधर्षणश्च । पापक्रिया पूर्वकृतश्च कर्म हेतुः किलासस्य विरोधि चान्नम् ॥४॥
तत्र श्लोकाः। हेतुव्यं लिङ्ग विविधं ये येषु चाधिका दोषाः। कुष्ठेषु दोषलिङ्ग समासतो दोषनिर्देशः॥ साध्यमसाध्यं कृच्छ्कु ष्ठं कुष्ठापहाश्च ये योगाः। सिद्धाः किलासहेतुर्लिङ्ग गुरु लाघवं तथा शान्तिः ॥ गङ्गाधरः-तत्र श्वित्रस्यासाध्यतामाह--यत् परस्परत्व इत्यादि। यत् श्वित्र परस्परतो भवत्यभिन्नमेकीभूतं मेलनेन तच्छित्रं न सिध्यति। यच्च श्वित्रं बहु रक्तलोमयुक्तं तन्न सिध्यति । यच्च श्वित्रं वर्षगणोत्पन्न बहुवर्षजातं सच नैव सिध्यति ॥९३॥ __ गङ्गाधरः-किलासस्य निदानमाह-वांसीत्यादि। अतथ्यानि असत्यानि वचांसि। कृतघ्नभावः। गुरूणां निन्दा, गुरूणां धर्षणश्च। पापक्रिया। पूर्वकृतश्च पापं कर्म। बिरोधि चान्नञ्च किलासस्य हेतुः ॥ ९४॥ ..
गङ्गाधरः-अध्यायार्थमाह-तत्र श्लोका इत्यादि। कुष्ठेषु हेतुर्निदान, लिङ्गं विविधम् । येषु कुष्ठेषु ये दोषा अधिकारतेषां दोषाणां लिङ्गं दोषलिङ्ग, समासतो दोषनिर्देशः येषु कुष्ठेषु ये दोषारतेषां निर्देशः। यत् कुष्ठं साध्यं तस्य लक्षणं, यदसाध्यं तस्य च लक्षणं, यत् कृच्छ कष्टसाध्यं तस्य च लिङ्गम्। ततोऽनन्तरं ये कुष्ठापहाः सिद्धयोगाः। किलासस्य हेतुलिङ्गं
तद्रक्तादिदोषमात्राभिप्रायेण, रक्तगतदोपं कुष्टलक्षणकारितया, तेनातापि त्वङ मात्रविकृतिकारकत्वं श्वितस्य सम्मतमेवेति न विशेषः। रक्तमित्यादिना साध्यकिलासलक्षणमाह ॥ ९२ ॥ ९३ ॥
चक्रपाणिः-वचांसीत्यादिना। वाङ मानसं पापं कर्मोक्तम् । पापक्रियेत्यनेन जन्मान्तरकृतमधर्म ग्राहयति ॥ ९४ ॥
पक्रपाणिः-हेतुप्यमिति संग्रहश्लोकः। रेषु येषु पालादिषु ये ये वा अधिकार
For Private and Personal Use Only