________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
चिकित्सितस्थानम्। २६७१ लेपः किलासहन्ता वीजान्यवल्गुजानि लाक्षा च। गोपित्तमञ्जने द्वे पिप्पल्यः कृष्णलोहरजः॥१०॥ शुद्धया शोणितमोविरुक्षणभक्षणैश्च सक्तूनाम् । श्वित्रं कस्यचिदेव प्रशाम्यति क्षीणपापस्य ॥ ११ ॥ दारणं चारणं श्वित्रं किलासं नामभिस्त्रिभिः । यदुच्यते तत् त्रिविधं त्रिदोषं प्रायशस्तु तत् ॥ दोषे रक्ताश्रिते रक्तं तानं मांससमाश्रिते। श्वेतं मेदःश्रिते श्वित्रं गुरुता चोत्तरोत्तरम् ॥ १२॥ . गङ्गावरः-अथ श्वित्रवत् किलासस्य चिकित्सितमाह-लेप इत्यादि । अवल्गुजवीजानि लाक्षा च गोपित्तं द्वे अञ्जने रसाञ्जनतुत्थके पिप्पली कृष्णलौहस्य रजः। एतानि पिष्टानि किलासहन्ता लेपः स्यात् ॥९०॥ .....
गङ्गाधरः-शुद्धेप्रत्यादि। क्षीणपापस्य कस्यचिज्जनस्य श्वित्रं वमनादिशुद्धग्रा शोणितमोक्ष विरुक्षणैः सक्तनां भक्षणैः प्रशाम्यति। इति किलासचिकित्सितमुक्तं भवति ॥९१॥ ____ गङ्गाधरः-अथ किलासमभेदानाह-दारणमित्यादि। किलासं त्रिभिः दारणचारणश्विवैरिति त्रिभिर्नामभियेदुच्यते तत् त्रिविधमेव किलासम्। दारणचारणश्चित्रं प्रायशस्त्रिदोषं भवति। . प्रायशोवचनेन कचिदन्यथापि स्यात्। तत्प्रभेद लक्ष गान्याह-दोषे इत्यादि। किलासारम्भके दोषे रक्ताश्रिते रक्तं यत् किलासं तद् दारणं नाम । मांससमाश्रिते दोषे यत् किलासं तत् ताम्रवर्ण चारणं नाम स्यात्। मेदःश्रिते दोषे किलासं श्वेतं भवति तत् श्वित्रं नाम। तेषामुत्तरोत्तरं गुरु कष्टाधिकम् ।। ९२॥
चक्रपाणिः-अञ्जने द्वे सौवीरं रसाअनकञ्च ।। ९० ॥ चक्रपाणिः कस्यचिदेव प्रशाम्यति इत्यनेन विवाणां:दुरुपगमतामाह ॥ ९१ ॥
चक्रपाणिः नामभिरित्युक्तदारुणादिभिरेव । प्रायःशब्देनकदोष द्विदोषञ्च भवति । दोष इत्यादिनोक्तं त्रैविध्यं विभजति। सुश्रुते तु त्वगगतमेव किलासमपरिस्रावि च इत्युक्त, म धनकुष्ठवद्रक्तादिकुष्ठलभणकारकं श्वित्रमित्यभिप्रायेणोक्तम् । इह तु यद्गताद्याश्रयित्वं वितलोच्यते
For Private and Personal Use Only