________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६७०
चरक-संहिता । कुष्ठचिकिसितम् यच्चान्यत् कुष्ठघ्नं श्वित्राणां सर्वमेतत् पथ्यम् । खदिरोदकसंयुक्तं खदिरोदकपानमग्रा वा ॥८॥ समनःशिलाविडङ्ग काशीसं रोचनां कनकपुष्पीम् । श्वित्राणां प्रशमाथं ससैन्धवं लेपनं दद्यात् ॥ कदलीक्षारयुतं वा खरास्थि दग्धं गवां रुधिरयुक्तम् । हस्तिमदाध्युषितं वा मालत्याः क्षारकं क्षारम् ॥ नोलोत्पलं सकुष्ठं ससैन्धवं हस्तिमूत्रपिष्टं वा। मूलकवीजावल्गुजालेपः पिष्टो भवेद् गवां मूत्रे ॥ काकोडुम्बरिकावासावल्गुजचित्रका गवां मूत्रे । पिष्टा मनःशिला वा संयुक्ता वहिपित्तेन ॥ ८ ॥
श्वित्रे लेपाः। वर्तितेक्षरसोपेतं यथावलं प्रातःप्रातः पिवेत्। कुष्ठनश्च यदन्यदुक्तं तदेतत् सव्वं श्वित्राणां पथ्यमिति। चित्रे पानीयन्तु खदिरोदकसंयुक्तं जलमथवा खदिरोदकपानमग्राम् ॥ ८८॥ , गङ्गाधरः-अथ श्वित्रे लेपमाह-समनःशिलेत्यादि। मनःशिलाविडङ्गकाशीसगोरोचनापीतयथीपुष्पपत्राणि सैन्धवञ्च पिष्ट्वा चित्राणां प्रशमार्थ लेपनं दद्यात् । तथा कदलीक्षारसंयुक्तं खरास्थि दग्धं भस्म गवां रुधिरयुक्तं लेपनं दद्यात् । अथवा मालत्याः क्षारक क्षारनिःस्त्र तं जातं सारभागरूपं क्षारं हस्तिमदाध्युषितं हस्तिमूत्रे प्रक्षिप्य पय्युषितं लेपनं दद्यात्। अथवा नीलोत्पलं कुष्ठं.. सैन्धवश्च हस्तिमूत्रण पिष्ट लेपनं दद्यात् ।। अथवा मूलकवीजावल्गुजवीजानामालपो गवां मूत्र पिष्टो भवेत् श्वित्राणां प्रशमाथेम् । काकोडम्बरिका कोठोडम्बरः वासाऽवलगुजः चित्रकश्च गवां मूत्र पिष्ट 'आलेपो भवेत् । अथवा वहि पित्तेन पिष्टा मनःशिला श्वित्राणां प्रशमार्थमालेपो भवेत् ॥ ८९ ॥ .. चक्रपाणिः-श्वित्रेऽङ्ग इति श्वितयुक्तेऽङ्ग ॥ ८८ ।।
चक्रपाणिः-कनकपुष्पी सुवर्णक्षीरी। मालयाः क्षारकक्षारमिति मालतीमुकुलक्षारं, क्षारको मुकुल उच्यते ॥ ८९॥
* मालत्याः क्षारकक्षारमिति चक्रः ।
For Private and Personal Use Only