SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः चिकित्सितस्थानम् । २६६४ श्वित्राणां प्रशमार्थ प्रयोक्तव्यं सर्वतो विशुद्धानाम् । श्वित्र स्रसनमग्रा मलपूरस इष्यते सगुड़ः॥ तं पीत्वा सुस्निग्धो यथावलं सूर्य्यपादसन्तापम् । संसेवेत विरिक्तस्त्राहं पिपासुः पिबेत् पेयाम् ॥८७॥ श्वित्रेऽङ्ग ये स्फोटा जायन्तै कण्टकेन तान् भिन्द्यात् । स्फोटेषु निःस्र तेषु प्रातःप्रातः पिबेत् पक्षम् ॥ मलपूमसनं प्रियङ्ग शतपुष्पाञ्चाम्भसा समुत्क्वाथ्य । पालाशं वा क्षारं यथावलं फाणितोपेतम् ॥ गङ्गाधरः कुष्ठचिकित्सितमिदमुक्त्वा कुष्ठकसम्भवलादत्रैवाधिकारे चित्रचिकित्सितमाह-वित्राणामित्यादि। श्वित्राणां प्रशमार्थ वक्ष्यमाणविधानम् । सर्वतो. विशुद्धानामूर्द्धाधःप्रभृतितः शुद्धानाम् । अन्यथा प्रयोगो हि न सम्यक सिध्यति। तत्रादित एवं कुय्यात् । तद यथा। चित्रे स्रसनं श्रेष्ठ, सगुड़ो मलपूरसः काष्ठोटुम्बररस इष्यते। तमित्यादि। पूर्व मुस्निग्धः श्वित्री तं सगुडं मलपूरसं पीला मूर्यपादसन्तापं रौद्रं संसेवेत। तेन विरिक्तः सन् पिपासुस्त्रयहं पेयां पिबेत् ॥ ८७ ॥ ___ गाधरः-श्वित्रेऽङ्गे इत्यादि। मलपूरसपानादिना श्वित्रेऽङ्गे श्वित्रस्थाने ये स्फोटा जायन्ते तान् कण्टकेन भिन्यात् । स्फोटेषु निःस्र तेषु निःशेषेण स्र तेषु मलपू कोटोडुम्बरमसनं पीतशालं प्रियङ्ग शतपुष्पाञ्च समुत्काथ्याम्भसा तं कार्य प्रातःप्रातः पिवेत् । अथवा पलाशक्षारं फाणितोपेतमा चक्रपाणिः--त्वग्दोषाधिकारानुपङ्गात् त्वग्दोषविशेषस्य श्वितस्य चिकित्सामाह--विखाणामित्यादि। नन्वपररोगाणां निदानमभिधाय चिकित्सोच्यते श्वित्रस्य तु प्रथमं चिकित्सा, अत कोऽभिप्रायः? उच्यते, येयं कुष्ठचिकित्सोक्ता सा त्वग्दोषाणामपि हन्त्रीति श्वित्रस्योच्यते तेन सा चिकित्सा श्वितागां सविशेष प्रयोक्तव्या। यदेतत् कुष्ठोद्दालनमुक्तं कुष्ठनाशने, तत् विताणां सविशेषगाढ़तरं कर्तव्यमित्यर्थः। सर्वतो विशुद्धानामिति वमनादिभिः शुद्धानाम्। मलपूर काकोडम्बरिका ॥ ८ ॥ ३३५ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy