SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Ka २६६८ चरक-संहिता। कुष्टचिकित्सितम् वृषकुटजसप्तपर्णाः करवीरकरञ्जनिम्बखदिराश्च । स्नाने पाने लेपे क्रिमिकुष्ठनुदः सगोभूत्राः॥८३॥ पानाहारविधाने प्रसेचने धूपने प्रदेहे च। क्रिमिनाशनं विडङ्ग विशिष्यते कुष्ठहा खदिरः॥८४॥ एड़गजः सविडङ्गो मूलान्यारवधस्य कुष्ठानाम्। उद्दालनं श्वदन्ता गोऽश्ववराहोष्ट्रदन्ताश्च ॥८५ ॥ एडगजः सविडङ्गो द्वे च निशे राजवृक्षमूलञ्च । कुष्ठोदालनमग्रा सपिप्पलीपाकलं योज्यम् ॥८६॥ तेन काथेन स्नानं, तथा पानीयकाथविधिना काथयिला तत्काथस्य पानं, पिष्ट्वा च प्रदेहश्च कर्त्तव्यः। क्रिमिकुष्ठे ॥ ८२॥ गङ्गाधरः-वृषेत्यादि। कुटजस्य फलम्। वृषादयः सप्त मिलिता जलेन कथिताः सगोमूत्राः स्नाने पाने, पिष्टाः सगोमूत्रा लेपे, क्रिमिकुष्ठनुदः । वृषादिः॥८३॥ गङ्गाधरः-पानाहारेत्यादि । पानविधाने आहार विधाने च। क्रिमिनाशनं विनङ्ग, कुष्ठहा खदिरश्च । क्रिमिकुष्ठिनां विशिष्यते द्वयं मिलितमिति ॥ ८४॥ गङ्गाधरः-एड़गज इत्यादि। आरग्वधस्य मूलान्येतत्त्रयं कुष्ठानामुदालनं विनाशनं, तथा प्रत्येकं श्वदन्ताः कुक्कुरदन्ताः गोऽश्ववराहोष्टदन्ताश्च प्रलेपेन कुष्ठानामुद्दालनाः॥८५॥ गङ्गाधरः-एड़गज इत्यादि। एड़गजविडङ्गहरिद्रादारुहरिद्राशम्पाकमूलानि पञ्चकमिदं सपिप्पलीपाकले पिप्पलीकुष्ठसहितमा कुष्ठोद्दालनं प्रलेपे.. योज्यमिति ॥८६॥ चक्रणणिः-कुष्ठहृत् खदिर इति कुष्ठहन्तृत्वेन खदिरश्च द्रवान्तरेषु विशिष्यते प्रकर्षवान् भवतीत्यर्थः॥८२-८४॥ चक्रपाणिः-श्वदन्ता इति कुक्कुरदन्ताः ॥ ८५ ॥ चक्रपाणिः-उद्दालनमिति प्रशमनम् । पाकलं कुष्ठम् ॥ ८६ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy