________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिाक
म अध्यायः]
चिकित्सितस्थानम् । खदिरस्य तुलाः पञ्च शिंशपासनयोस्तुले। तुला ः सर्व एवैते करारिष्टवेतसाः ॥ पर्पटः कुटजश्चैव वृषः क्रिमिहरस्तथा। हरिद्र कृतमालश्च गुडूची त्रिफला त्रिवृत् ॥ सप्तपर्णश्च संक्षुण्णा दशद्रोणेषु वारिणः । अष्टभागावशिष्टन्तु कषायमवतारयेत् ॥ धात्रीरसञ्च तुल्यांशं सर्पिषश्चादकं पचेत् । महातिक्तककल्कैस्तु यथोक्तः पलसम्मितैः * ॥ निहन्ति सवकुष्ठानि पानाभ्यङ्गनिषेवणात् । महाखदिरमित्येतत् परं कुष्ठविकारनुत् ॥८१॥
महाख दिरं घृतम् । प्रपतत्सु लसीकाप्रस्नु तेषु गात्रेषु जन्तुजग्धेषु। मूत्रं निम्बविडङ्ग स्नानं पानं प्रदेहश्च ॥ २ ॥ गङ्गाधरः-खदिरस्येत्यादि। खदिरस्य सारस्य पश्च तुलाः, शिंशपाया. स्तुलाऽसनस्य च तुलेति द्वयो तुले। एते वक्ष्यमाणाः करादयः सर्चे प्रत्येकं तुला ः। एते मिलिताः सर्वे वारिणो दशद्रोणे पक्त्वाष्टभागावशिष्टं कषायमवतारयेत्। तत्र करञ्जो गोकरञ्जः। अरिष्टं निम्बम् । वेतसोऽशोका। द्वे हरिद्रे। कृतमालो नाटाकरञ्जः। त्रिफलायाः प्रत्येकमद्धतुला। एकोनविंशतिः काथ्याः। धात्रीरसश्च सर्पिषस्तुल्यांशं, सपिषश्चादकं पचेत् । महातिक्तकघृतस्य ये कल्का उक्ताः सप्तच्छदादित्रायमाणान्ता एकत्रिंशत्, तैः प्रत्येकं पलोन्मितः कल्कैः पक्त्वा पाकसिद्धाववतारयेत्। अस्याशीनिहन्ति इत्यादिः। इति महाख दिरघृतम् ।। ८१॥
गङ्गावरः-प्रपतत्स्वित्यादि। कुष्ठिनां गात्रेषु जन्तुजग्धषु क्रिमिभक्षितषु प्रपत्सु गलन्मांसेषु लसीकासु स तासु मूत्रं गोमूत्रं निम्बपत्रं विङ्गश्च काथयिखा . चक्रपाणिः--खदिरस्य तुला इत्यादिकं केचिदनाएं वदन्ति । साधयेदित्यत सपिरिति शेषः । तत्र तु पृतमानानुक्तौ काथशेषस्याठकाधिकद्रोणस्य नियतत्वात् तत्काथचतुर्थभागप्रस्थाधिकामासघृतं साध्यम् ॥ ८१॥ * यथोक्तैस्तैस्तु साधयेदिति चक्रः ।
For Private and Personal Use Only