________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६६
चरक-संहिता। । कुष्ठचिकित्सितम् वत्सकवीजं वासां मूर्खाममृतां किराततिक्तश्च । कल्कान् कुर्य्यान्मतिमान् यष्टा त्रायमाणाञ्च ॥ कल्कश्चतुर्थभागो जलमष्टगुणं रसोऽमृतफलानाम् । द्विगुणो घृतात् प्रदेयस्तत् सिद्धं पाययेत् सर्पिः॥ कुष्ठानि रक्तपित्तप्रबलान्यांसि रक्तवाहीनि । वीरिक्तपित्तं वातादृपाण्डुरोगश्च ॥ विस्फोटकान् सपामानुन्मादं कामलां ज्वरं कण्डूम् । हृद्रोगगुल्मपिड़का अमृगदरं गण्डमालाश्च ॥ हन्यादेतत् सर्पिः पीतं काले यथावलं सद्यः। योगशतैरप्यजितान् महाविकारान् महातिक्तम् ॥ दोषे हृतेऽपनीते रक्त वाह्यान्तरे कृते वमने। स्नेहे काले युक्त न कुष्ठतिवर्त्तते साध्यम् ॥ ८०॥
महातिक्तकं घृतम् । श्यामलतानन्तमूले द्वे। सप्तच्छदादीन् त्रायमाणान्तानेकत्रिंशतं कल्कान् कुर्यात् । समुदितकल्कस्तु घृताच्चतुर्थो भागः। जलश्चाष्टगुणं घृतादेव । तथा अस्तफलानामालकफलानां रसो घृताद द्विगुणः प्रदेयः। तत् पक्त्वा सिद्धं पूतं सर्पिः पाययेदिति। कुष्ठानीत्यादिरस्याशीः। अस्यैकान्ततः सिद्धि प्रकारमाह-दोषे हृते इत्यादि। वमनादिना दोषे हृते। रक्तेऽपनीते सिराव्यधनेनाभ्यन्तरे रक्ते जलौकादिभिर्वाह्य रक्तऽपनीते वमने कृते काले युक्त यथाकाले स्नेहे प्रयुक्ते साध्यं कुष्ठं नातिवर्त्तते निवर्तत एवेति । महातिक्तकं घृतम् ॥ ८॥
चक्रपाणिः–सप्तच्छदमित्यादि। महातिक्तघृतमाह। शम्पाक आरग्वधः । कल्कस्य चतुर्भाग इति घृताचतुर्थो भागः। एतच्च सामान्यपरिभाषासिद्धमिति स्पष्टार्थमुच्यते। अमृतफलानामिति गुरु चीफलानाम् । अत्रापि त्रिसर्विचनमेकं कल्कादिभागार्थ द्वितीयं पेयत्वोपदर्शनार्थ, तृतीय महाविककसंज्ञादर्शनार्थम् । न कुष्ठमनुवर्तत इति साध्य एवेत्यर्थः ॥ ८० ॥
For Private and Personal Use Only