________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः] चिकित्सितस्थानम् । २६६५
निम्बपटोल दा/ दुरालभां तिक्तरोहिणी त्रिफलाम् । कुर्यादर्द्धालांशां पर्पटकं त्रायमाणाञ्च ॥ सलिलाढकसिद्धानां रसेऽष्टभागे स्थिते क्षिपेत् पूते। चन्दनकिराततिक्तकमागधिकात्रायमाणाश्च ॥ मुस्तं वत्सकवी कल्कीकुत्यार्द्धकार्षिकान् भागान् । नवसर्पिषश्च षट्पलमेतत् तिक्तकं घृतं पेयम् ॥ कुष्ठज्वरगुल्मार्थोग्रहणीपाण्डामयश्वयथुहारि । पामाविसर्पपिड़काकण्डूमदगण्डनुत् सिद्धम् ॥७६ ॥
तिक्तषट्पलकं घृतम्। सप्तच्छदं प्रतिविषां शम्माकं तिक्तरोहिणी पाठाम्। मुस्तमुशोरं त्रिफलां पटोलपिचुमर्दपर्पटकम् ॥ धन्वयवासं चन्दनमुपकुल्यां पद्मकं हरिद्र दे। षड्ग्रन्थां सविशालां शतावरी शारिवे चोभे॥ गङ्गाधरः-निम्बपटोलमित्यादि। निम्बस्य वल्कलं पटोलस्य पत्रं, तिक्तकरोहिणी कटुकरोहिणी। पर्पटकं त्रायमाणा चेति। सर्वेषामेवाईपलांशं कुर्यात्। सलिलाढके कृतद्वैगुण्यात् षोड़शशरावे सिद्धानामेषां निम्बादीनां रसेऽष्टभागस्थिते शरावद्वयस्थिते पूते वस्त्रपूतं कृत्वा तत्र काथे चन्दनादिवत्सकवीजान्तान् षट् प्रत्येकं कार्षिकान भागान कल्कीकृत्य क्षिपेत् । नवसर्पिषश्च षटपलं तत्रैव क्षिपेत्। पक्त्वा घृतावशेषमवतायें पूखा मात्रया एतत् तिक्तकं षट्पलकं घृतं पेयम् । अस्याशीः कुष्ठज्वरेत्यादिः। तिक्तषट्पलकं घृतम् ॥७९॥ __गङ्गाधरः-सप्तच्छदमित्यादि । उपकुल्यां कृष्णजीरकम् । शारिवे चोभे इति
चक्रपाणिः-निम्बपटोलमि-यादिना तिक्तपट्पलकमाह। सर्पिश्चाप्यनवं हितमिति वचनस्य बाधकमिह योगमहिम्ना सर्पिषो नवत्वं ज्ञेयम्। प्रथमं सर्पिष इति पदं मानार्थं द्वितीयन्तु घृतमिति पदं पेयत्वोपदर्शनार्थम् ॥ ७९ ॥
For Private and Personal Use Only