SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६६४ चरक-संहिता। [कुष्टचिकित्सितम् त्रिफलात्वचोऽर्द्धपलिकाः पटोलपत्रश्च कार्षिकाः शेषाः। कटुरोहिणी सनिम्बा यष्टाह्वा त्रायमाणा च ॥ . एष कषायः साध्यो दत्त्वा द्विपलं मसूरविदलानाम् । सलिलाढकेऽष्टभागे शेषे पूतो रसो ग्राह्यः ॥ तत्र कषायेऽष्टपले ® चतुःपलं सर्पिषश्च पक्तव्यम् । यावत् स्यादष्टपलं शेषं पेयं ततः कोष्णम् ॥ तद् वातपित्तकुष्ठं वीसप वातशोणितं प्रबलम्।.. ज्वरदाहगुल्मविद्रधिविभ्रमविस्फोटकं हन्यात् ॥ ७८॥ त्रैफलकाथः। गङ्गाधरः-त्रिफलेत्यादि। त्रिफलाया अस्थीनि त्यक्त्वा खचोर्द्धपलिकाः प्रत्येकम् । पटोलपत्रश्चाद्धपलिकम्। शेषाः कटुरोहिण्यादयश्चवारः कार्षिकाः प्रत्येकम् । तत्र मसूरविदलानां द्विपलं दत्त्वा कषायः। एष सलिलाढकेऽष्टशरावे द्वैगुण्याभावविवक्षातः साध्यः। अष्टभागशेषेऽष्टपले शेषे पूतो वस्त्रपूतं कृखा रसो ग्राह्यः। तत्र शरावमिते कषाये घृतस्य चतुष्पलं पक्तव्यम्, शेषन्तु अष्टपलं कार्यम् । तदष्टपलं कोष्णं पेयं कुष्ठिभिः प्रतिदिनम् एवं कला कृला पेयं बलदेहाग्निबलमवेक्ष्य न्यूनाधिक्यं मात्रायाः कार्यमिति युक्तिः । तदित्यादिराशीः। त्रैफलकाथः ॥७८॥ चक्रपाणिः-विफलेति। निस्तुषमसूराणां विदाल न तु मसूरविदला अख श्यामा। उक्तं हि जतूकर्णे-लिङ्गेन * * मसूरविदलात् पलमिति। अष्टभागे इति षोडशपले । अत एवान्ते कषायाष्ट ले इति प्रथमाद्विवचनान्तं षोड़शपलमाह। अत्र घाटवंशत्युत्तरपलशतमानस्याष्टभागशेष षोड़श पलानि भवन्ति। तच्च वषोड़शपलमष्टपलशब्देनाकृतद्वैगुण्यमेवोच्यते, यदि पलोपरि द्रवद्वैगुण्यं स्यात् तदा षोड़शपलेन द्वात्रिंशत्पलानि स्युः। न चेह भागशेष द्वात्रिंशत्पलत्वं किन्तु षोडशपलत्वमेव, तेनैतत्स्थादष्टपलशब्देनाकृतद्वैगुण्याद् द्रवषोड़शपलग्रहणन्तु नोनीयते। यत्पलोल्ले खनाद द्वैगुण्यं नास्ति किन्तु कुड़वादावेव द्रवद्वैगुण्यमिहानुमतम्, तन्त्रान्तरेऽपि सम्मतमिति । यावत् स्यादष्टपलमिःयनेन कषायचतुःपलेन सम्मूतस्याष्टपलं स्थाप्यं दर्शयति । यैषा च माता कुष्टिनां भूरिमालद्रव्यसाध्यत्वेनोत्तमा ज्ञेया ॥ ७८ ॥ * कषायाष्टपले इति चक्रः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy