________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ]
चिकित्सितस्थानम् ।
आलेपनं प्रियगरेका वत्सकस्य च फलानि । सातिविषा च ससेव्या सचन्दना रोहिणी कटुका ॥ ७५ ॥ तिक्तघृतैौ तद्वृतैरभ्यङ्गो दह्यमानकुष्ठेषु । तैलैश्चन्दनमधुकप्रपौण्डरोकोत्पलयुतैश्च ॥ ७६ ॥
२६६३
अभ्यङ्गः ।
क्लेदे प्रपतति चाहे दाहे विस्फोटके सम्र्म्मदले | शीताः प्रदेहसेका व्यधो विरेको घृतं तिक्तम् ॥ खदिरघृतं निम्बघृतं दात्रघृतमुत्तमं पटोलघृतम् । कुष्ठेषु रक्तपित्तप्रबलेषु भिषग्जितं सिद्धम् ॥ ७७ ॥
गङ्गाधरः- आलेपनमित्यादि । प्रियङ्गः । हरेणुका रेणुकः । वत्सकस्य फलानीन्द्रयवाः । ससेव्या सोशीरा । रोहिणी कटुका कटुरोहिणी । एतानि पिष्ट्वा पित्तकुष्ठिनामालेपनं हितम् ॥ ७५ ॥
गङ्गाधरः - तिक्तघृतैरित्यादि । दह्यमानकुष्ठेषु तिक्तघृतैः पञ्चतिक्तघृतविक्तषट पुलघृत- महातिक्तघृत- तन्त्रान्तरोक्तपञ्चतिक्तघृतैः अभ्यङ्गो हितः । तथा शतधौत सहस्रधौतादिघृतैरभ्यङ्गः । चन्दनमधुकप्रपौण्डरीकोत्पलैः करकैः सिद्धैश्व तैश्वाभ्यङ्गो हितो दह्यमान कुष्ठेषु । अभ्यङ्गः ॥ ७६ ॥
गङ्गाधरः- क्लेदे इत्यादि । कुण्डिनाम क्लेदे जाते प्रपतिते च गलिते च दाहे विस्फोटयुते चर्म्मविदलने च शीताः प्रदेहाः शीताः सेकाव हिताः । सिराव्यधो विरेकश्च हितः । तिक्तं घृतं वक्ष्यमाणश्च हितमिति । खदिरघृतमित्यादि । रक्तपित्तमवलेषु कुष्ठेषु वश्ववाणं महास्वदिरघृतं निम्बघृतं वक्ष्यमाणं तिक्तपट्पलघृतं दावघृतं दात्रकाथकल्काभ्यां सिद्धं पटोलघृतं पटोलपत्रकाथकल्काभ्यां सिद्धमुत्तमं सिद्धं भिषग्जितं भवति ॥ ७७ ॥
For Private and Personal Use Only
चक्रपाणिः - तैलैरिति चन्दनादिभिः ॥ ७५ ॥ ७६ ॥
चक्रपाणिः - खदिरघृतमित्यादौ खदिरादिभिघृतानि । तव च खदिरस्य सारः, निम्बस्य त्वक पटोलस्य च पत्रं ग्राह्य वृद्धव्यवहारात् । उक्तञ्च 'सारः स्यात् खदिरादीनां निम्बादीनां स्वच तथा । फलन्तु दाड़िमादीनां पटोलादेर्दलं तथा ॥ ७७ ॥