________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६२
चरक संहिता। [कुष्ठचिकित्सितम् एडगजः सञ्जरसो मूलकवीजञ्च सिध्मकुष्ठानाम् । काधिकयुक्तन्तु पृथङ् मतमिदमुद्वर्त्तनं क्रमशः॥७१॥
लेपाः। वासा त्रिफला पाने स्नाने चोन्मदने प्रदेहे च । वृहतो सेव्यपटोली ससारिखा रोहिणा चव ॥ खदिरामयघातककुभरोहीतकलोध्रकुटजधवनिम्बाः। सप्तच्छदकरवीराः शस्यन्तै स्नानपानेषु ॥७२॥ जलवायलोहकेशरपत्रप्नवचण्डामृणालानि । भागोत्तराणि सिद्धं प्रलेपनं पित्तकफकुष्ठे ॥७३॥ यष्टाह्वलोध्रपद्मकपटोलपिचुमर्द चन्दनरसाश्च । स्नाने पाने च हिताः सुशीतलाः पित्तकुष्ठिभ्यः ॥ ७४॥ गङ्गाधरः-वासेत्यादि। वासा च त्रिफला चेति चखारि द्रव्याणि निःकाथ्य पाने स्नाने च कुष्ठिनां हितानि स्युः। पिष्ट्वा चोन्मईने प्रदेहे च हितानि स्युः। वृहतीत्यादि । एवं कुष्ठिनां स्नानपानेषु गृहत्यादयः शस्यन्ते। पटोली तिक्तपटोलम्। आमयघातो व्याधिघातः। रोहीतकः प्लीहशत्रः, रहना इति लोके। धवः स्वनामख्यातः ॥७१ । ७२ ॥ - गङ्गाधरः-जलवाप्येत्यादि। जलं बालकं, वाप्यं कुष्ठं, लोहमगुरु, नागकेशरं, तेजपत्रं, प्लवः कैवर्त्तमुस्तकं, चण्डा चोरपुष्पी, मृणालम् उशीरम् । एतान्युत्तरोत्तरभागद्धानि नीखा . पिष्ट्वा पित्तकफकुष्ठे प्रलेपनम् ॥७३॥
गङ्गाधरः-यष्ट्याह्न त्यादि। यष्ट्याहादि चन्दनान्तानां रसाः काथाः सुशीताः पित्तकुष्ठिभ्यः स्नाने पाने च हिताः ॥ ७४॥
चक्रपाणि:--अवघातः कर्णिकाकारः, रोहीतको रोहिड इति ख्यातः ॥ ७२ ॥ चक्रपाणिः-वाप्यं कुष्ठं लोहमगुरु प्लवं कैवर्तमुस्तकं भागोत्तराणि यथोत्तरमेश. 11वृद्धानि ॥७३॥
चक्रपाणिः-रसा इति क्वाथाः ॥ ७४ ॥ * खदिरावघातककुभा इति चक्रभृतः पाठः ।
For Private and Personal Use Only