________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अध्यायः चिकित्सितस्थानम् ।
२६६१ पूतीकदारुजटिलाः पक्कसुरा क्षौद्रमुद्गपण्यों च। लेपः सकाकनासो मण्डलकुष्ठापहः सिद्धः ॥ ६८॥
मण्डले लेपः। चित्रकशोभाञ्जनको गुड़ च्यपामार्गदेवदारूणि। खदिरो धवश्च लेपः श्यामा दन्ती द्रवन्ती च ॥ लादारसाजनैलापुनर्नवाश्चेति कुष्ठिनां लेपाः। दधिमण्डयुताः सर्वे देयाः षट् मारुतकफनाः ॥ ६६ ॥
पट लेपाः। एडगजकुष्ठसैन्धवसोवोरकसर्षपैः क्रिमिघ्नश्च ।। क्रिमिकुष्ठमण्डलाख्यं दद्रुकुष्ठश्च नाशयति ॥ ७० ॥
लेपः। . गङ्गाधरः -पूतीकेत्यादि। पूतीकं नाटाकरञ्जमूलं देवदारु जटामांसी पकसुरा वकयन्त्रे पक्त्वा या पैष्टी सुरा भवति, क्षौद्रं मुगपर्णी चेति द्वौ, काकनासिका च । एतैः सप्तभिलेपः मण्डलाख्यकुष्ठापहः । मण्डले लेपः॥६८॥
गङ्गाधरः-चित्रकेत्यादि । चित्रकमूलं शोभाञ्जनवा इति द्वाभ्यां दधिमस्तुपिष्टाभ्यामेको लेपः। गुडूच्यपामार्गदेवदारुभिदेधिमस्तुपिष्टैद्वितीयो लेपः। दधिमस्तुपिष्टः खदिरैस्तृतीयो लेपः। दधिमस्तुपिष्टः धवैश्चतुर्थों लेपः । श्याममूलत्रिटन्नागदन्तीहस्खमूलदन्तीभिश्च दधिमस्तुपिष्टैः पञ्चमो लेपः। लाक्षा रसो रसाञ्जनमेला च पुनर्नवा चेति पश्चभिर्दधिमस्तुपिष्टः षष्ठो लेपः। एते पड़ लेपा मारुतकफजकुष्उघ्नाः। षड़ लेपाः॥ ६९॥
गङ्गाधरः-एड़गजेत्यादि। एड़गजो दद्रुघ्नः कुष्ठं सैन्धवं सर्षपा विडङ्गाः एतः पञ्चभिः सौवीरपिष्टैलेपः क्रिम्यादीन् नाशयति। लेपः॥७०॥
चक्रपाणिः-पूतीत्यादी पक्कसुरा गोरक्षकर्कटी ॥ ६ ॥
चक्रपाणिः-पष्मारुतकफकुष्ठवा इति । क्लिन्नौं वराहरुधिरमित्याश्यक्ताः षड्भवन्ति। अन्ये चित्रकादीनेव लोकपादोक्तान् पड़ वर्णयन्ति ॥ ६९ । ७० ।।
३३४
For Private and Personal Use Only