________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः]
चिकित्सितस्थानम्।
२६५७ श्वेतकरवीरकरसो गोमूत्रं चित्रको विङ्गश्च । कुष्ठेषु तैलयोगः सिद्धोऽयं सम्मतो भिषजाम् ॥ ६॥
श्वेतकरवीराद्य तैलम्। श्वेतकरवीरपल्लवमलत्वग वत्सको विडङ्गश्च । कुष्ठार्कमूलसर्षपशिग्रुत्वग् रोहिणी कटुका ॥ एतैस्तैलं सिद्धं कल्कैः पादांशिकैर्गवां मूत्रम् । दत्त्वा तैलचतुर्गुणमभ्यङ्गात् कुष्ठकण्डूत्रम् ॥ ६१॥
- श्वेतकरवीरपल्लवाद्य तेलम् । तिक्तत्वाका वीजं द्वे तुत्थे रोचना हरिद्र द्वे।। वृहतीफलमेरण्डः सविशालचित्रको मूर्खा ॥ कासीसहिङ्गशिग्रुाषणसुरदारुतुम्बुरुविडङ्गम्। लागलकं कुटजत्वक् कटुकाख्यरोहिणी चैव ॥
गङ्गाधरः-श्वेतकरवीरेत्यादि। चित्रको विङ्गश्चेति द्वयं समभागेन पादिकं यौगिकलात्, कटुतैलात् कल्कीकृत्य श्वेतकरवीररसो द्विगुणो गोमूत्रं द्विगुणमिति चतुर्गुणद्रवं कटुतैलं पचेत् ॥ ६०॥ श्वेतकरवीरकतैलम् ।
गङ्गाधरः-श्वेतकरवीरपल्लवेत्यादि। श्वेतकरवीरस्य पल्लवश्च मूलखक च। अर्कमूलम् । शिग्रुखक । कटुकारोहिणी। एतैर्नवभिः कल्कै मिलितैः कटुतैलात् पादिकैः। गवां मूत्रं तैलाच्चतुगुणं दत्त्वा सिद्धं पक तैलमभ्यशात् कुष्ठकण्डूनमिति ॥ १॥
श्वेतकरवीरपल्लवादितलम् । गङ्गाधरः-तिक्तत्यादि। तिक्तेक्ष्वाकुस्तिक्तालाबूस्तस्या वीजम्। द्वे तुत्थे तुत्थकरसाञ्जने। रोचना गोरोचना। वे हरिद्रे। कासीसं धातुकासीसम् ।
चक्रपाणि:- श्वेतकरवीरेत्यादौ करवीररसगोमूत्रयोवस्वम् ॥ ६० ॥
For Private and Personal Use Only