SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६५८ चरक संहिता | सर्पपतैलं कल्कैरेतैर्मूत्रे चतुर्गुणे साध्यम् कण्डूकुष्ठविनाशनमभ्यगाद् वातकफहन्तृ ॥ ६२ ॥ तिक्तेक्ष्वाकुलम् | कनकक्षीरी शैला भार्गी दन्त्याः फलानि मूलञ्च । जातीप्रवालसर्पपलसुन विडङ्ग कर अत्वक् ॥ सप्तच्छदार्कपल्लव मूलत्वक चित्रकास्फोताः । गुञ्जरण्डं वृहती मूलकसुरसा कफलानि ॥ कुष्ठं पाठा मुस्तं तुम्बुरुमूर्थ्यावचाः सपग्रन्थाः । एड़गजकुटजशिय त्रूषण भल्लातकक्षवकाः ॥ हरितालमवाक्पुष्पी तुत्थं कम्पिल्लकोऽमृतासंज्ञः * । सौराष्ट्र कासीसं दात्वक सर्जिकालवणम् ॥ शिग्रु शिग्रुत्वक् । लाङ्गलकमीपलाङ्गलिका | कटुकाख्यरोहिणी कटुरोहिणी । एभित्रयोविंशत्या कल्कंगसूत्रे चतुर्गुणे सार्पपतैलं साध्यम् ।। ६२ ।। तिक्तेक्ष्वाकुतैलम् । गङ्गाधरः - कनकक्षीरीत्यादि । कनकक्षीरी स्वर्णक्षीरी । शैला मनःशिला । भार्गी । दन्त्याः फलानि मूलञ्च । जातीप्रबालः जात्या नवपत्रम् । सर्षपं श्वेतम् ! करञ्जत्वक् नाटाकरञ्जत्खक् । सप्तच्छदस्य पल्लवं मूलत्वक् च । तथार्कस्य पल्लवं मूलं त्वक् च । चित्रकस्य आस्फोतायाः श्वेतापराजितायाश्च मूलम् । गुञ्जाफलमेरण्डफलञ्च । बृहतीफलम् । मूलकस्य वीजम् । सुरसाया वीजम् । अज्जेकस्य च वीजम् । सुरसाको पर्णासभेदौ श्वेत कृष्णतुलस्यौ । वचा श्वेतवचा । षड्ग्रन्था वचा । एगजफलम् । कुटजशिग्रोस्तक् । भल्लातकफलम् | क्षवकः हाँचीया नाम । हरिताल वंशपत्राकारम् । अवाक्पुष्पी शताह्वा । तुत्थं । कम्पिल्लकं कमलागुड़ीतिलोके । अमृतासंशः खर्परः । सौराष्ट्री फटिकारी । कासीसं कसीश इति लोके । दार्जीवक दारुहरिद्राया वल्कलम् । सर्जिकालवणं सर्जिकाक्षारम् । षट् For Private and Personal Use Only [ कुष्ठचिकित्सितम् चक्रपाणिः -- तुत्थे इति कारिका तुत्थम् । श्वेतकरवीरेत्यादौ कल्कमानमस्य च तैलमानमपि समानम् ॥ ६१ ॥ ६२ ॥ * अमृतासङ्गमिति वा पाठः ।
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy