________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६५६
चरक संहिता |
[कुष्ठचिकित्सितम्
त्रिफलानिम्बपटोलं मञ्जिष्ठा रोहिणी वचा रजनी । एष कषायोऽभ्यस्तो निहन्ति कफपित्तजं कुष्ठम् ॥ एतैरेव च सर्पिः सिद्धं वातोल्वणं जयति कुष्ठम् । एष च कल्पो दृष्टः खदिरसुरदारुनिम्बानाम् ॥ ५८ ॥ कुष्ठार्कतुत्थकट्फलमूलकवीजानि रोहिणी कटुका । कुटजफलोत्पलमुस्तं वृहतीकरवीर काशीशम् ॥ एगज निम्बपाठा दुरालभा चित्रको विङ्गश्च । तिक्तेक्ष्वाकुवीजं कम्पिल्लकसर्षपं वचा दावीं ॥ एतैस्तैलं सिद्धं कुष्ठघ्नं योग एष चालेपः । उद्वर्त्तनं प्रघर्षणमवचूर्णनमेष एव चेष्टः ॥ ५६ ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
पत्रम् |
एतैरेव
गङ्गाधरः- त्रिफलेत्यादि । निम्बस्य मूलत्वक् पटोलस्य त्रिफलादिनवद्रव्यकषायः । इत्येको योगः । एतैरित्यादि । नवभिः कल्ककाथरूपैः सिद्धं पक सर्पिधृतम् । इति द्वितीयो योगः । एष चेत्यादि । खदिरादीनां त्रयाणामेष चेत्युक्तत्रिफलादिर्यः कल्पः कषायरूप एकः, काथकल्काभ्यां पकघृतरूपो द्वितीयः ॥ ५८ ॥
गङ्गाधरः- कुष्ठेत्यादि । कुष्ठादीनि पञ्च । रोहिणी कटुका कटुरोहिणी । चित्रको रोचनेति केचित् । कुष्ठादिभिस्त्रयोविंशत्या कल्ककाथाभ्यां सिद्धं पक तैलं कुष्ठघ्नं भवति । एष च त्रयोविंशतिद्रव्यकृत आलेपो योगः कुष्ठघ्नः । एष त्रयोविंशतिक इष्टो भवत्युद्वत्तेनं प्रघषेणमवचूर्णनमपीष्टः ।। ५९ ।।
तैलादि ।
चक्रपाणिः -- कुष्ठार्केत्यादि । एतैरतैलं सिद्धमित्यत्र तिलतैलं ज्ञेयम् । यत्र तु विशेषस्तत्र सार्षपं वा, अन्ये तु कुष्ठ वाले सार्षपं ग्राहयन्ति । पाने तु विशेषानुक्ते तिलतैलमेव भवति ॥ ५८/५९ ॥
* खदिरा सनदारुनिम्बानामिति क्वचित् पाठः ।
For Private and Personal Use Only