________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः चिकित्सितस्थानम् ।
२६५५ शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि पिष्ट्रा च काकमाची चतुर्विधः कुष्ठनुल्लेपः॥ ५६ ।।
चखारो लेपाः। दाा रसाञ्जनस्य च निम्बपटोलस्य खदिरसारस्य । आरग्वधवृक्षकयोस्त्रिफलायाः सप्तपर्णस्य ॥ इति षट् कषाययोगाः कुष्ठनाः सप्तमश्च तिनिशस्य । स्नाने पाने च हितास्तथाष्टमश्चाश्वमारस्य ॥ आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषायाः। तैलघृतपाकयोगे चेष्यन्तै कुष्ठशान्त्यर्थम् ॥ ५७॥
अष्टौ कषायाः। गङ्गाधरः-गैरीषीत्यादि। शिरीषस्य लक, कार्पास्या वनकार्पास्याः पुष्पं, राजवृक्षस्य पत्राणि, काकमाची चेति चखारि प्रत्येकं जलेन पिष्ट्वा लेपः। इति चखारो योगाः॥५६॥
गङ्गाधरः-दाा इत्यादि। दाव्या दारुह रिद्राया रसाञ्जनस्य घनीभूतकाथस्य शोषाद रसाञ्जनसंशस्य कषाययोग एकः। निम्बपटोलस्य निम्बवल्कलपटोलपत्रयोः कपाययोगो द्वितीयः। खदिरसारस्य कषाययोगस्तृतीयः। आरग्वधक्षकयोः राजवृक्षकुटजवल्कलयोः कषाययोगश्चतुर्थः । त्रिफलायाः पश्चमः। षष्ठः सप्तपर्णस्य । सप्तमस्तिनिशक्षस्येति । तथाष्टमोऽश्वमारस्य करवीरमूलखचः। कषाययोगाः इमे स्नाने पाने च हिताः कुष्ठना एव काथरूपेण । एत एवाष्टौ कषायाः कल्करूपेणालेपनं प्रघर्षणमवचूर्णनश्च कर्त्तव्याः। तैलघृतपाकयोगे चैत एवाष्टौ कषाया इष्यन्ते कल्ककाथाभ्यामिति ॥ ५७॥
अष्टौ कषायाः। चक्रपाणिः-शैरीषीत्यगादौ प्रत्येकद्रग्यकृतत्वेन चतुर्भिः प्रलेपो शेयः। अन्ये तु चतुर्भिरपि मिलितैरवचूर्णनोद्वर्तनजलपिष्टलेपनरसक्रियालेपनभेदेनेह चतुर्विधलेपं वदन्ति। एतच विधानचतुष्टयमन्यप्रयोगेष्वपि दृश्यते। तथाप्यालेपनसिद्धत्वान्नातिरमणीयम् ॥५६॥
चक्रपाणिः-दाया इत्यादौ दाझैसम्बन्धिनो रसाञ्जनस्यैको योगः। शेषास्तु षट्। सप्तकस्तिनिशस्याष्टमोऽश्वमारस्य। अश्वमारस्तु यद्यपि मूलत्वेनोक्तस्तथापि कुष्ठेषु विषमयोगस्यापि विहितस्वात् साधुः ॥५॥
For Private and Personal Use Only