SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६५४ चरक-संहिता। कुष्ठचिकित्सितम् मुस्तं त्रिफला मदनं करा आरग्वधं कलिङ्गन्यवाः । दाऊ ससप्तपर्णा स्नानं सिद्धार्थकं नाम ॥ एष कषायो वमनं विरेचनं वर्णकस्तथोघर्षः। त्वग्दोषशोथकुष्ठप्रबाधनः पाण्डुरोगनः॥ ५३॥ कुष्ठं करञ्जवीजान्येड़गजः कुष्ठसूदनो लेपः । प्रपुन्नाड़वीजसैन्धवरसाञ्जनकपित्थलोधाश्च ॥ करवीरमूलवल्कः कुटजकरञ्जात् फलं त्वचो दााः । सुमनःप्रबालयुक्तो लेपः कुष्ठापहः सिद्धः ॥५४॥ लोध्रस्य धातकीनां वत्सकवीजस्य नक्तमालस्य । कल्कश्च मालतीनां कुष्ठेषद्वर्तनालेपो॥ ५५ ॥ गङ्गाधरः-मुस्तमित्यादि। कलिङ्गयव इन्द्रयवः। दार्वी दारुहरिद्रा । एषां कषायः कार्यः। स एप कषायः स्नान, येन स्नाति तत् स्नानं सिद्धार्थकं नाम। येन च वमतीति स कषायो वमनं, स कषायो विरेचनश्च येन विरिच्यते। एष कषायो वर्णकरश्च तथोदधर्षः तेन चीकृतेन मुस्तादिना दशकेन खलदघर्षणं काय॑म् योग्यखान्न तु कपायः काय्यः उद्घर्षणायोग्यखात् । खगदोषेत्यादिषु प्रबाधनयोग्यखादेष कषायः इत्येव । पाण्डुरोगघ्न इत्यपि एष कषाय इत्यन्वितम् ॥ ५३॥ गङ्गाधरः-कुष्ठमित्यादि। त्रीणि कुष्ठादीनि जलेन पिष्ट्वा कुष्ठे लेपः । प्रपुन्नाड़वीजेत्यादि। कुटजात् फलमिन्द्रयवः । करञ्जात् फलम् । दारित्वक् । सुमनःप्रबालेति मालतीकलिका। प्रपुन्नाड़वीजादीनि दश जलेन पिष्ट्वा लेपः॥५४॥ गङ्गाधरः-लोध्रस्येत्यादि। लोध्रादीनां पकानां प्रत्येक कल्कः। स च कुष्ठेषद्वत्तनं लेपश्च कार्य्यः॥५५॥ चक्रपाणिः-मुस्तमित्यादौ वर्णकमित्यालेपन, स्वग्दोषशब्देन गोषलीवई न्यायेन किलासव्यङ्गादीनां ग्रहणम् ॥ ५३ ॥ --चक्रपाणिः- कुष्ठमित्यादिको योगो जलपिष्टको ज्ञेयः। तेनारग्वधीयोक्त-"करञ्जवीजैड़गजः सकुष्ठो गोमूतपिष्ठश्च परः प्रदेहः' इत्यत्र गोमूतपिष्टत्वं विशेषः, तेन न पौनरुत्यम्। उद्वर्त्तनालेपो इत्यादौ उन्मई नमुद्वर्त्तनं ज्ञेयम् ॥ ५४ ॥ ५५ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy