________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
चिकित्सितस्थानम् । २६५३ मांसी मरिचं लवणं रजनी तगरं सुधा गृहाद धूमः । मूत्रं गोः पित्तश्च क्षार: पालाशः कुष्ठहा लेपः॥५०॥ त्रपु सीसमयश्चर्ण मण्डलनुत् फलगुचित्रको वृहती। गोधारसः सलवणो दारु च मूत्रञ्च मण्डलनुत् ।। ५१॥ कदलीपलाशपाटलिनिचुलक्षाराम्भसा प्रसन्नेन । मांसेषु तोयकायं कायं पिष्टे च क्लिन्ने च ॥ तैर्मोदकः सुजात: किण्वैर्जनितः प्रलेपनं श्रेष्ठम् । मण्डलकुष्ठविनाशनमातसंस्थं क्रिमिन्नश्च ॥५२॥
गङ्गाधरः-मांसीत्यादि। सुधा स्नुही, गृहाद धूमो ग्राह्य इति शेषः। मृत्रं गोः, पित्तश्च गोरेव । पालाशः क्षारः। एतैजेलपिष्टः दशभिलेपः । मांस्यादिलेपः॥५०॥ - गङ्गाधरः- पु वर्क, फल्गुः काष्ठोडुम्बरः । त्रप्वादीन् तृहत्यन्तान् चूर्णितान् एकीकृत्य पाययेन्। गोधारस इत्यादि। गोधामांसरसेन गोमूत्रेण च मिलितेन सैन्धवलवणं देवदारुचणं समभागेन मिश्रितं पानविधिना पाययेत् ॥५१॥
गङ्गाधरः-कदलीत्यादि। कदलीवृक्षवल्कलादीनां क्षारजलेन प्रसन्नेन खच्छरूपेण न त्वाविलरूपेण यथादोपहरं मांसं पक्तुं तोयकार्य कार्य्यमर्थात् तेन मांसं पक्तव्यं न तु तोयेन। पिष्टं तण्डुलपिष्टं क्लिन्नं सुराक्लिन तयोश्च तेनैव क्षारजलेन तोयकायं कार्यमर्थात् तेन क्षारजलेन पिष्टं क्लिन्नश्च द्रवीकाय्र्यम् । तैमांसपिष्टक्लिन्नैः कियद्भिदिनः पय्युषितीभूतः सुजातो मोदकाकारः सन् किण्वः कठिनो जनितः श्रेष्ठं लेपनं स्यात्। किंकर्मकरमित्यत आहमण्डलेत्यादि। तेन प्रलेपेन प्रलिप्यातपसंस्थस्य मण्डलकुष्ठविनाशनं क्रिमिन्नश्च स्यात् । क्षारमोदकप्रलेपनम् ॥५२॥
चक्रपाणिः-मांसेषु तोयकार्यमिति मांसप्रक्षालनात् पिष्टे व तोयकार्य्य तथा किन्वे व तोयकार्य क्षाराम्भसा कार्यमिति योज्यम् । अव मांसपिष्टाभ्यां किग्वं कार्यम् । किग्वैश्व मोदक साधनीय । मोदको जगलः मुजातः सञ्जनितः प्रलेपनमिति योज्यम् ॥ ५०-५२ ॥
For Private and Personal Use Only