________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६५२ चरक-संहिता।
कुष्टचिकित्सितम लघूनि चान्नानि हितानि विद्यात् कुष्ठेषुशाकानि च तिक्तकानि । भल्लातकैः सत्रिफलैः सनिम्बैयक्तानि चान्नानि घृतानि चैव ॥ पुराणधान्यान्यथ जाङ्गलानि मांसानि मुद्गाश्च पटोलयुक्ताः। शस्ता न गुठवन्नपयोदधीनि नानूपमत्स्या न गुड़ास्तिलानि ॥४७॥
एला कुष्ठं दाझै शतपुष्पा चित्रको विडङ्गश्च । कुष्ठालेपनमिष्टं रसाञ्जनश्चाभया चैव ॥४८॥ चित्रकमेलां विम्बी वृषकं त्रिवृदर्कनागरकम् । चूर्णीकृतमष्टाहं भावयितव्यं पलाशस्य ॥ क्षारेण गवां मूत्रनु तेनास्य मण्डलान्याशु । भियन्ते विलयन्ति च लितान्यकाभितप्तानि ॥ ४६॥
शिष्टः, तत्र गुड़श्चित्रकत्वक्चर्णश्चाई, क्रमुकादीनां चूर्ण मधु च अनुरूपं मिश्रयित्वा मासं स्थाप्यः। क्रमुकं गुवाकं, वराङ्ग गुड़त्वक् ॥ ४५ ॥ ४६॥ - गङ्गाधरः-कुष्ठानां पथ्यमाह-लघनीत्यादि । शस्ता इत्यन्तो विच्छेदः । अपथ्यमाह-न गुन्नेत्यादि तिलान्तम् ॥४७॥ : गङ्गाधरः-कुष्ठे आलेपनमाह-एलेत्यादि। एलाद्यभयान्तं जलेन पिष्टा लेपः॥४८॥ ___ गङ्गाधरः-चित्रकमित्यादि। चित्रकादिकं सप्तद्रव्यं चर्णीकृत्य गोमूत्रस्र तेन पलाशक्षारेणार्थात् पलाशक्षारं गोमूत्रे गोलयित्वा क्षारपरिभाषया एकविंशतिवारान् परिस्राव्य तहवेण सप्ताहं भावयितव्यं, तेन लिप्तानि मण्डलानि रौद्रेण पुरुषं स्थापयित्वार्कतप्तानि कारितानि आशु भिद्यन्ते विलयन्ति च। लपः॥४९॥
चक्रपाणिः-लघूनीत्यादिनाहारमाह ॥ ४७ ॥ चक्रपाणिः-एलेत्यादिना लेपानाह ॥ ८॥ चक्रपाणिः-विम्बी औष्टोपमफला, क्षारेणेति विलयन्तीत्यपयान्ति ॥ ४९ ॥
For Private and Personal Use Only