________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कम अध्यायः ]
चिकित्सितस्थानम् ।
खदिरकषायद्रोणं कुम्भे घृतभावित समावाप्य । द्रव्याणि चूर्णितानि च षट्पलिकान्यत्र # देयानि ॥ त्रिफलाव्योषविडङ्गरजनीमुस्ताटरूषकेन्द्रयवाः । सौवर्णी च तथा त्वक् छिन्नरुहा चेति तन्मासम् ॥ निदधीत धान्यमध्ये प्रातः प्रातः पिबेत् ततो युक्त्या । मासेन महाकुष्ठं हन्त्येवाल्यन्तु पक्षेण ॥ अर्शःश्वासभगन्दरकास किलासप्रमेहशोषांश्च । ना भवति कनकवर्णः पीत्वारिष्टं कनकबिन्दुम् ॥ ४४ ॥ कनकबिन्द्वरिष्टम् ।
Acharya Shri Kailassagarsuri Gyanmandir
कुष्ठेष्वनिलकफकूतेष्वेवं पेयस्तथापि पित्तेषु । कृतमालकाथश्चाप्येष विशेषात् कफकुतेषु ॥ ४५ ॥ त्रिफलासवश्च गौडः सचित्रकः कुष्ठरोगविनिहन्ता ।
For Private and Personal Use Only
२६५१
क्रमुकदशमूलदन्तीवराङ्गमधुयोगसंयुक्तः ॥ ४६ ॥
गङ्गाधरः - खदिरकषाय इत्यादि । खदिरकषायद्रोणं खदिरसारं द्वात्रिंशच्छरावं, जलमष्टद्रोणं शेषं द्रोणं चतुःषष्टिशरावं, घृतभाविते कुम्भे कलसे प्रक्षिप्य त्रिफलादीनि मिलित्वा चणितानि षट्पलिकानि दत्त्वा मुखं रुढा धान्यराशौ मासं स्थापयेत् । मासादूर्द्ध जातरसं तदरिष्टं यथाकोष्ठाग्निवलं प्रातः प्रातः पिबेत् । अत्राटरूपकं वासकस्य मूलत्वक् । सौवर्णीत्वक् शम्पाकष्टक्षस्य त्व । कनकबिन्द्वरिष्टम् ॥ ४४ ॥
गङ्गाधरः- त्वग्दोषसामान्याच्छमनमौषधमुक्त्वा दोषविशेषत औषधमाहकुष्ठेष्वित्यादि । कृतमालकाथ इति शम्पाकक्काथः । त्रिफलासवश्च गौड़ो गुड़कृत स्त्रिफलासवः । कीदृशः ? सचित्रक इत्यादि । तेन त्रिफलाकाथः पादावचक्रपाणिः - सौवर्णीत्वग् दारुहरिद्रा ॥ ४४ ॥
1
चक्रपाणि: - त्रिफलासवश्च गौड इत्यादौ गौड़ इति शर्करास्थाने गुडेन कृतः गौड़ः । अल क्रमुकं पूगफलं, वराङ्ग गुग्गुलुः । अत्र त्रिफलादीनां मानेऽनुक्तेऽपि आसवान्सेकद्रव्यमानविभागेन मानं ग्राह्यम् ॥ ४५ ॥ ४६ ॥
* अष्टपलिकानीति पाठान्तरम् ।