________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७म अध्यायः }
चिकित्सितस्थानम् ।
श्वयथुं सपाण्डुरोगं श्वित्रं ग्रहणीप्रदोषमशसि । ब्रध्नभगन्दरपिकाकण्डूकोठांश्च विनिहन्ति ॥ ४० ॥
मुस्तादिचर्णम् ।
।
*
Acharya Shri Kailassagarsuri Gyanmandir
२६४६
त्रिफलातिविषाकटुकानिम्बकलिङ्गकवचापटोलानाम् मागधिकारजनीद्वयपद्मकपूर्व्याविशालानाम् ॥ भूनिम्बपलाशानां दद्याद् द्विपलं ततस्त्रिवृद्ध द्विगुणा तस्याश्च पुनर्ब्राह्मी तच्चूर्ण सुतिनुत् परमम् ॥ ४१ ॥
सुप्तिकुष्ठेः।
नवनीतकप्रयोगो रसेन जात्याः समाक्षिकः परमः । सप्तदशकुष्ठघाती माक्षिकधातुश्च मूत्रेण ॥ गन्धकयोगात् अथवा सुवर्णमाक्षिकयोगादेव । सर्व्वव्याधिविनाशनमद्यात् कुष्ठी रसञ्च निगृहीतम् ॥
मात्रया समध्याज्यं संयोजितं सिद्धमेतत् कुष्ठनिवर्हणं प्रायोगिकम् अभ्यास्यं भक्ष्यम् । मुस्तादिचूर्णम् ।। ४० ॥
गङ्गाधरः- त्रिफलेत्यादि । त्रिफलादीनां सप्तदशानां प्रत्येकं द्विपलं सर्व्वचूर्णात् द्विगुणात्रित् चर्णीकृता । तस्यास्त्रिकृताया द्विगुणा ब्राह्मी ब्राह्मोशाकचणम् । एतच्चूर्ण सुप्तिनुत् स्पर्शानभित्वनुत् । सुप्तिकुष्ठे त्रिफलादि चर्णम् ॥ ४१ ॥
गङ्गाधरः - नवनीतक इत्यादि । नवनीतकेति नवनीताख्यगन्धकस्य प्रयोगः । जात्या धात्रा रसेन माक्षिकेण सह गन्धकं शोधितं यथाग्निबलं कर्षमर्द्धकर्षं मद्देयित्वा भक्षणविधया प्रयोगः परमः सप्तदशकुष्ठघाती, काकणकमसाध्यं न तस्य क्रिया विधीयते । एवं गोमूत्रेण माक्षिकधातोश्च प्रयोगः सप्तदशकुष्ठघाती । गन्धक योगस्वर्णमाक्षिक योगौ । गन्धकेत्यादि । गन्धक योगात् सुवर्णमाक्षिकयोगाच्च निगृहीतं मारितं रसं पारदं कुष्ठी अद्यात् । चक्रपाणिः - तर्पणभागैरिति सक्तभागैः संयोजितमिति सततोपयोज्यम् ॥ ४० ॥
1
चक्रपाणिः - त्रिफलेत्यादि योगन पठन्ति ॥ ४१ ॥
गन्धक योगसुवर्णमाक्षिक योगलिलीहक योगाच्च इति पाठान्तरम् ।
For Private and Personal Use Only