________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४८
चरक-संहिता। कुष्ठचिकित्सितम कुष्ठानि शोथं ग्रहणीप्रदोषमर्शासि कृच्छाणि हलीमकञ्च । योगः प्रयोगेण निहन्ति चैषां हृद्वस्तिशूलं विषमज्वरञ्च ॥ ३९ ॥
इति पटोलमूलादिपूर्णम् । मुस्तं व्योषं त्रिफला मञ्जिष्ठा दारु पञ्चमूल्यौ द्वे । सप्तच्छदनिम्बत्वक सविशाला चित्रको मूर्खा ॥ चूर्णन्तु पलभागैर्नवभिः ® संयोजितं समध्धाज्यम् ।
सिद्धं कुष्ठनिवर्हणमेतत् प्रायोगिकं भक्ष्यम् ॥ जले भृते जले पक्वे दोपहरं पलमितं पिवेदिति। अस्मिनौषधे जीणे विरेकानन्तरं भेषजजीर्णलक्षणोदये सति पुराणशाल्योदनं धन्वमृगपक्षिणां मांस. रसैराददीतार्थात् भुञ्जीत । पटोलमूलादिचूर्णम् ॥३९॥
गङ्गाधरः-मुस्तमित्यादि। पञ्चमूल्यौ द्वे दशमूली। सप्तच्छदनिम्बयोस्त्वक् । विशाला गोरक्षकर्कटी। एषां नवभिः पलभागैश्चर्ण कोष्ठाद्यपेक्षया
कृतानामिति जर्जरीकृतानाम् । षट्पलानां पलमाकृष्य जले शृतं पिबेदेवं षड्दिनं प्रयोज्यम् । षड्दिनप्रयोगेणैवास्य प्रायः कुष्ठहरत्वमुन्नीयते। एतद्वयाख्यानसङ्गतिप्रदतन्त्रान्तराणीह लिख्यन्ते। तथाह्यग्निवेशः "पटोलमूलं त्रिफला विशाला च पलोन्मिता। पलाई लायमाणा च तथा कटुकरोहिणी। कर्षा नागरं दत्त्वा षट् पलान्यवचूर्ण,येत्। जले शृतं पिबेत् कोष्णं चूर्ण स्यात्र पलं पलम्" इत्यादि। तथा चक्षुष्येणाप्याह- “पटोलमूलं त्रिफला विशाला च पलांशिका। कटुका त्रायमाणा च पलार्दा पादनागरा। तस्मात् षड्भागमुत्क्वाथ्य जले दोषहरं पिबेद" इति । अन्ये तु व्याख्यानयन्ति यत् पलांशशब्देन कर्ष उच्यते। तेन पटोलमूलस्य पृथक कर्षः तथा गवाक्षीमूलस्य कर्षः त्रिफलायाः कर्षः। ब्रायमाणा व नागरपादयुक्ता सती भागार्द्ध का कर्षप्रमाणा भवति। एवं कटुरोहिणी च नागरपादयुक्ता सती कर्षा भवति । एवं मिलित्वा पलं चूर्णीकृतं जले शृतं पिबेदिति । एतच्च तन्वान्तरविरोधात्। तथा त्रिफलासमुदायभागस्य चान्यायसिद्धत्वान्नाति मधु ।' जतूकर्णे-"पटोलमूलतिफला-गवाक्षीतिवृतापलैः। सायन्ती कटुका द्वाभ्यां कृत्वा नागरपादिकम्। चूर्ण पलं पिबेत् तस्माच्छृतम्" इत्यादिवचनविरोधात् । जीर्णे रसे इत्यादि। विरेकेऽत रसभोजनं प्रयोगत्वात् धन्वमृगद्विजानां रसे शाल्योदनमाददीतेति ॥३९॥
* चूर्ण तर्पणभागैर्नवभिः इति पाठान्तरम् ।
For Private and Personal Use Only