________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
चिकित्सितस्थानम् । २६४७ दोषाधिक्यविभागादित्येतत् कर्म कुष्ठनुत् प्रोक्तम् । वक्ष्यामि कुष्ठशमनं प्रायस्त्वग्दोषसामान्यात् ॥ ३७॥ दा/रसाञ्जनं वा गोमूत्रेण प्रबाधते कुष्ठम् ।
अभया प्रयोजिता वा मासं सव्योषगुड़तला ॥ ३८॥ मूलं पटोलस्य तथा गवाक्ष्याः पृथक पलांशं त्रिफला त्रिवृच्च । स्यात् त्रायमाणा कटुरोहिणी च भागार्द्धिका नागरपादयुक्ता॥ पलं तथैषां सहचूर्णितानां जले चैते दोषहरं पिबेन्ना। जीर्णे रसे धन्वमृगद्विजानां पुराणशाल्योदनमाददीत ॥
- गङ्गाधरः-उपसंहरति-दोषेत्यादि । इत्येतत् कर्म दोषाधिक्यविभागात कुष्ठनुत् प्रोक्तम्। खग्दोषसामान्यादिति। सर्वेषु कुष्ठेषु लगदोषोऽस्तीति सामान्यादेकयैव क्रियया सर्वाणि कुष्ठानि शाम्यन्ति इति भावः। दावी दारुहरिद्रा, तत्काथो घनीभूतो रसाञ्जनं वा गोमूत्रेण पानादिति शेषः। मासमिति उभययोगेनान्वितम्। अभयादिः द्वितीययोगः। प्रयोजिता पानेनेति शेषः ॥ ३७॥ ३८॥ । गङ्गाधरः-मूलमित्यादि। पटोलस्य मूलं, गवाक्ष्याः गोरक्षकर्कट्या मूलं प्रत्येकं पलांशं, त्रिफला च प्रत्येकं पलांशा, त्रिच्च पलांशा, त्रायमाणा भागाद्धिका अर्द्धपला, कटुरोहिणी चापला, नागरस्य पादांशयुक्ता कर्षमित्यर्थः। सहचणितानामेषां पटोलमूलादीनां
चकपाणिः-दा:रसाञ्जनं दाक्विाथकृतं रसाञ्जनम्। अभयाप्रयोगो गुडतैलयोः कुष्ठनिदानत्वेनोक्तयोरपि संयोगमहिम्ना हरीतक्या समं प्रयोगः कुष्ठनो भवति ॥ ३७ ॥३८॥ - चक्रपाणिः- मूलं पटोलस्येति। पटोलमूलम् तथा गवाक्ष्या अपि मूलं, पलांशः पलपरिमाणः। त्रिफला विवृच प्रत्येकं पलांशा। यद्यपि च महातिक्तोक्तद्वितीयपृथकशब्देन त्रिफलायाः प्रत्येक भागः सर्वत्र व्यवस्थापितः, तथापि तस्यैवार्थस्य द्योतनार्थ पुनः पृथक्त्वं ग्राहयति। किंवा त्रायमाणायाः कटुरोहिण्याः पृथक भागाकत्वं दर्शयति। विफलायास्तु प्रसङ्गत एव पृथग्भागग्रहणं सिद्धम्। त्रायमाणाकटुरोहिग्योः प्रत्येकं षट्शाणमानं नागरस्य चोभयोरर्द्धभागपूरकत्वेनाईपलापेक्षया चतुर्थपादद्वयेन चतुष्टयं भवति। एवं वायमाणाकटुरोहिणीनागरैः लमेकं, पटोलमूलादिभिः पञ्च पलानीति मिलित्वा षट पलानि,तथा सत्येषां पटोलादीनाम् । चूर्णी
For Private and Personal Use Only