________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४६
चरक-संहिता। [कुष्ठचिकित्सितम् पाषाणकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे च । पीतागदस्य कार्यो विषैः प्रदेहोऽगदैश्चानु ॥ ३३॥ स्तब्धानि सुप्त सुप्तान्यस्वेदनकण्डुलानि कुष्ठानि। कूच्चैर्दन्तीत्रिवृताकरवीरकरञ्जकुटजानाम् ॥ जात्यर्कनिम्बजैर्वा पत्रः शस्त्रैः समुद्रफेनेन । घृष्टानि गोमयैर्वा ततः प्रदेहैः प्रदेह्यानि ॥ ३४॥ मारुतकफकुष्ठघ्नं कम्मोक्तं कुष्ठिनां कार्यम् । कफपित्तरक्तहरणं तिक्तकषायैः प्रशमनञ्च ॥ ३५ ॥ सी षि तिक्तकानि च यच्चोक्तं रक्तपित्तनुत् कर्म।
वाह्याभ्यन्तरमा तत् कायं पित्तकुष्ठेषु ॥३६॥ अशीरोगोक्तविधिना साधितः क्षारो निपात्यः। पाषाणकठिनादौ कुष्ठे पीतागदस्य अगदं पाययिता अनु.पश्चात् तैरगदैविषैः कुष्ठहरैः सर्वरोगहरैः वा पदेहः कार्यः। यानि कुष्ठानि स्तब्धादीनि कूच्चैदन्त्यादीनां पत्रैः (जात्यादीनां) शस्त्रैः समुद्रफेनेन वा घृष्टानि गोमयेन वा शुष्केण घृष्टानि प्रदेहः प्रदेशानि कुर्यात् ॥३२-३४॥ - गङ्गाधरः-अथ सर्वकुष्ठिनां वातकफकुष्ठघ्नमौषधमतिदिशति मारुतेत्यादि। सव्वषां कुष्ठिनां मारुतकफकुष्ठध्नं यत् कम्म पूर्वमुक्तं तत् कार्यम् । एवं सर्व कुष्ठिनां कफपित्तरक्तहरणं कफादीनां त्रयाणां वमनविरेचनसिरावैधादिभिर्निर्हरणं, तिक्तकषायस्तिक्तरसयोनिकषायस्तेषां प्रशमनश्च काय्र्यम् ॥३५॥
गङ्गाधरः-कफपित्तरक्तानामेव प्रशमन एकस्तिक्तको रसः कथं वातं प्रशमयेदित्यत आह-सीपीति। तिक्तकानि वक्ष्यमाणानि पञ्चतिक्तादीनि सपी षि सव्वषां दोषाणां रक्तस्य च प्रशमनखात् कार्याणि। तथा रक्तपित्तनुत् कर्म यदुक्तं रक्तपित्तचिकित्सिते वाह्य वहिः परिमार्जनश्चाना तत् पित्तकुष्ठेषु काय्र्यम् ॥३६॥ नाशनानीति त्वगिन्द्रियहराणि। सुप्तसुप्तानीति सुप्तवत् सुप्तानि अचेतनानि, सर्वथा स्पर्शाज्ञानीत्यर्थः । सीपि तिक्तकानि। पित्तकुष्ठिनां रक्तपित्तहरादीनि कार्याणि इति योज्यम् ॥ ३२-३६ ॥
For Private and Personal Use Only