________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
में अध्याय:
चिकित्सितस्थानम् ।
२६४५ स्थिरकठिनमण्डलानां स्विन्नानां प्रस्तरप्रणाडोभिः। कूच्चे विघट्टितानां रक्तोत्वलेशोऽपनेतव्यः॥
आनूपवारिजानां मांसानां पोट्टलः सुखोष्णैश्च । .. खिन्नोत्स्विन्नं विलिखत् कुष्ठं तीक्ष्णेन शस्त्रेण ॥ रुधिरागमार्थमथवा शृङ्गालाबूभिराहरेद् रुधिरम् । प्रच्छितमल्पं कुष्ठं विरेचयेद् वा जलौकोभिः ॥३०॥ ये लेपाः कुष्ठानां युज्यन्तै निह तात्रदोषाणाम्। संशोधिताशयानां सद्यः सिद्धिर्मवेत् तेषाम् ॥३१॥ येषु न शस्त्रं क्रमते स्पर्शेन्द्रियनाशनानि यानि स्युः। तेष निपात्यः क्षारो रक्तं दोषश्च विस्राव्य ॥ ३२॥ गङ्गाधरः-स्थिरकठिनमण्डलानामित्यादि। स्थिरकठिनमण्डलाकारान् स्वेदयिखा प्रस्तरेण वा प्रणाड्या वा कुच्चैर्वा विघट्टयेत्। तेनोक्लिष्टं रक्तमपनेतव्यम् । केनापनेतव्यमिति तदाह-आनूपेत्यादि। आनूपचारिज मांसं स्विन्नं कृता सुखोष्णः पोट्टलीकृतैः खिन्न मुस्विन्नं मण्डलाकारं कुष्ठं तीक्ष्णेन शस्त्रेण विलिवेत् किञ्चित् किश्चित् छिन्नं छिन्नं कुर्यात् रुधिरागमर्थम् । अथवा शृङ्गरलाव भिर्वा आहरेद रक्तम् । अल्पं कुष्ठं प्रच्छितं कृता जलोकोभिर्विरेचयेद वा॥३०॥
गङ्गाधरः-अथ लेपमाह-ये लेपा इत्यादि। निह तास्रदोषाणां निह ता अस्रश्च दोषाश्च येषां तेषां ये लेपाः युज्यन्ते, तेषां लेपानां सिद्धिस्तद्गुणकर्मकरणे फलोदये। तेषां संशोधिताशयानाम् । आशयशोधनात् सद्यः सिद्धिर्भवेत् न बनिह तास्रदोषाणाम् । मलिनीभूताशयत्वेन तदौषधवी-धानं स्यात यथा म्लिष्टे वाससि न रङ्गयोगः सम्यक स्यात् ॥३१॥
गङ्गाधरः-येष्वित्यादि। येषु कुष्ठेषु शस्त्रं न क्रमते शस्त्रचारणं न कत्तु शक्यते। कुष्ठानि चान्यानि स्पशेनेन्द्रियनाशनानि स्युः। तेषु कुष्ठेषु क्षारो निपात्यः, रक्तं शृङ्गालाबभिर्जलोकोभिर्वा विसाव्य वमनादिभिदोष विस्राव्य च
चक्रपाणिः-नाड्य व नाडी पुष्करनाड़ी स्वेदाध्याये उक्ता। कूर्च शस्त्रविशेषमाह-रक्तोत्क्लेश उक्लिष्टं रक्त, स्विन्नत्वेनोस्विन्नम् स्विन्नोत्स्विन्नम्। रुधिरागमार्थमुलिखेदिति सम्बन्धः । निहतोऽस्रदोषो येषां ते निह तात्रदोषाः ॥ ३० ॥३१॥
चक्रपाणिः-न शस्त्रं क्रमत इति सिरादिसङ्कटत्वान्न शस्त्रं योग्यं भवति । स्पर्शेन्द्रिय
३३२
For Private and Personal Use Only