SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६४४ · चरक-संहिता। [ कुष्ठचिकित्सितम् दाऊवृहतीसेव्यैः पटोलपिचुमर्दमदनकृतमालः । सस्नेहैरास्थाप्यः कुष्ठी सकलिङ्गफलमुस्तैः॥ वातोल्वणं विरिक्तं निरूढमनुवासनार्हमालक्ष्य । फलमधुकनिम्बकुटजैः सपटोलैः साधयेत् स्नेहम् ॥ २७॥ सैन्धवदन्तीमधुकं फणिज्झकं सपिप्पलीकरअफलम् । नस्यं स्यात् सविड़ग क्रिमिकुष्ठकफप्रदोषन्नम् ॥ २८॥ वैरेचनिकैर्धमः श्लोकस्थानेरितैः प्रशाम्यन्ति।। क्रिमयः कुष्ठकिलासाः प्रयोजितरुत्तमाङ्गस्थाः ॥ २६ ॥ गङ्गाधरः-कुष्ठिनामास्थापनमाह-दार्वीत्यादि। दार्ची दारुहरिद्रा, सेव्यमुशीरं, पटोलपत्रं, पिचुमद्दौ निम्बखक, मदनस्य फलं, कृतमालं शम्पाकफलमज्जा। एषां काथैः सस्नेहस्तैलादिमिश्रितैः कलिङ्गफलमुस्तककल्कमिश्रेश्च कुष्ठी नर आस्थाप्यः। पूर्व विरिक्तं वातोल्वणं कुष्ठिनमेतेन सिद्धिस्थानोक्तनिरूहेण वा निरूढं पुरुषमनुवासनाईमालक्ष्य। फलमधु. केत्यादिभिः कल्कैश्चतुर्गुणेन जलेन स्नेहं तैलादिकं साधयेत् । तेनानुवासयेदिति भाष्यम्, तदाह - वातेत्यादि । व्याख्यात एष श्लोकः पूर्वम् ॥२७॥ गङ्गाधरः-एवं चतुष्कानन्तरं पञ्चमं नस्यमाह-सैन्धवेत्यादि । फणिज्झकं मदयन्तीमूलम् । विहङ्गान्त एष नस्ययोगः क्रिम्यादिनः। वैरेचनिक धूमैः श्लोकस्थानोक्तैः क्रिमयः प्रशाम्यन्ति। उत्तमानस्थाः क्रिमयः कुष्ठकिलासाश्चेत्यन्वयः ॥२८ ॥ २९॥ इति प्रधानमध्यावरशुद्धापेक्षया पेयादिक्रमः द्विश एकशो वा कार्यः, उक्तं हि-पेयां विलेपीमकृतं कृतञ्च यूपं रसं त्रीनुभयं तथैकम् । क्रमेण सेवेत नरोऽन्नकालान् प्रधानमध्यावरशुद्धिशुद्धः' इति। आस्थापनानुवासने यद्यपि नास्थाप्या कुष्टिन इत्यादिना कुष्ठे निषिद्ध, तथापि अस्थापनानुवासनैकसाध्यायामवस्थायां कर्तव्ये एव। यदुक्तं- 'प्रवृत्तिनिवृत्तिलक्षणसंयोगे गुरु लाघवं सम्प्रधार्य सम्यगधिगच्छेत्' इति । तेनाह वातोल्वणमित्यादि। आस्थापनानु. वासनविधानं सेव्यम् ॥ २६–२८॥ चक्रपाणिः-सूत्रस्याने यद्यपि एक एव वैरेचनिको धूम उक्तस्तथापि तत्रोक्तद्रव्यैर्व्यस्तसमस्तैर्बहवो धूमा भवन्तीति बहुवचनमिह कृतम् ॥ २९ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy