SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः चिकित्सितस्थानम् । रौक्ष्यं शोषस्तोदः शूलं सङ्कोचनं तथायासः । पारुण्यं खरभावो हर्षः श्यावारुणत्वञ्च ॥ कुष्ठेषु वातलिङ्गं ----- ---------दाहो रागः परिस्रवः पाकः । विस्रो गन्धः क्लेदस्तथागपतनश्च पित्तकृतम् ॥ श्वैत्यं शैत्यं कण्डूः स्थैर्य सोत्सेधगौरवस्नेहाः । कुष्ठेषु तु कफलिङ्गं जन्तुभिरभिभक्षणं क्लेदः ॥२१॥ सबै लिङ्गैर्युक्तं मतिमान् विवजयेदबलम् । तृष्णादाहपरीतं शान्ताग्निं जन्नुभिर्जग्धम् ॥ २२ ॥ दोषविशेषो गूढलिङ्गखान्न विशेषेण ज्ञातुं शक्यते, स खलु रुक्षकुपितश्चेद् रुक्षेण सेवितेन प्रकाशितः स्यादन्यैर्वान्यैव्यक्तं स्यादिति ॥२०॥ गङ्गाधरः-तस्मात् कुष्ठसाधरणे वातादिलिङ्गान्याह-रोक्ष्यमित्यादि। शोषः शरीरस्य मुखस्य च । तोदः सूचीवद्वेदना। शुलं वेदनामात्रम् । सङ्कोचनमङ्गल्यादीनाम्। पारुष्यं काठिन्यम् । खरभावः कार्कश्यम् । हर्षों गात्राणां लोन्नाश्च । इति कुष्ठेषु वातलिङ्गम्। दाह इत्यादिकं कुष्ठे पित्तकृतं लिङ्गम्। रागो रक्तामता। परिस्रवः परिस्रावः। पाक इति पचनम्, तेन क्लेदत्र तिः। विस्रो गन्ध आमगन्धः। क्लेदश्च पित्तकाय्यः। श्वैत्यमित्यादि कफलिङ्गम्। कुष्ठेषु सोत्सेध उच्चतम् । क्लेदान्तं कफलिङ्गवचनम् । एतेषां वातादीनामेभिरधिकतमै लिङ्गैर्बलं विद्यादल्पतमलिङ्रबलं दोष विद्यात ॥२१॥ गङ्गाधरः-तेषाश्च बलाबलाभ्यां कुष्ठस्य गुणमाह-सबै रित्यादि। त्रिदोषलिङ्गमबलं कुष्ठिनं मतिमान् विवज्जयेत्। बलवन्तन्तु प्रत्याख्याय प्रतिकुर्यादिति भाष्यम्। तथा तृषादियुक्तं शान्ताग्निं कुण्ठे पतितक्रिमि वातोत्तरकुष्ठजनकं सेवितं तस्मादस्य वातोत्तरं झापालं कुण्ठं भविष्यतीति किंवा कुष्ठदोषयोः अन्योन्यगमकत्वं तत्कार्यकारणतया परस्परगमकत्वादुपपन्नमिति दर्शयन्नाह-तैरिति । तैः कुष्ठ: कार्यरूपैहेतुर्नामदोषः अनुमीयते, हेतुश्च दोषरूपस्थानकार्य्यरूपकुष्ठविशेषानवगमयतीत्यर्थः ॥ २०॥ चक्रपाणिः-कुष्ठगतदोषज्ञानार्थ वातादिलिङ्गान्याह-रौक्ष्यमित्यादि । दाहादयः पित्तलिङ्गानि । चिकित्सानिवृक्तयर्थ साध्यासाध्यकुष्ठान्याह-सचरित्यादि ॥ २१ ॥ २२॥ .. For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy